Mp Board Class 10 Sanskrit Solution chapter 3

Mp Board Class 10 Sanskrit Solution chapter 3 महर्षिः दयानन्दः

पाठ का हिन्दी अनुवाद संस्कृत सहित

भारतीया संस्कृति: संसारस्य पुरातनसंस्कृतिषु प्रधानतमा वर्तते । समये-समये अनेके महापुरुषाः भारते अवतीर्य एताम् अस्मद्देशीयां संस्कृति श्रेष्ठताया: चरमसीमां नीतवन्तः। महर्षि दयानन्द: तेषु प्रधानतम: उन्नायक: आसीत्। अस्मिन् पाठे महर्षे: दयानन्दस्य जीवनचरितं प्रस्तूयते।


1. महर्षेः दयानन्दस्य जन्म गुर्जरप्रदेशे ब्राह्मणपरिवारे फरवरीमासे द्वादशे दिनाङ्के चतुर्विंशत्युत्तराऽष्टादशशततमे (12/02/1824) ईशवीये वर्षे अभवत् । अस्य जन्मनाम मूलशङ्करः आसीत् । यदा एषः षोडशवर्षीय: जात: तदा अस्य भगिनी स्वर्गं गता। वर्षत्रयानन्तरं चास्य पितृव्योऽपि दिवं गतः । गृहे अन्येषु जनेषु विलपत्सु अयं संसारस्य अनित्यतां विचारयन् “कथमहम् अमरो भवेयम्” इति चिन्तयामास । एकस्मिन्दिने मूलशङ्करः सहसैव स्वगृहमत्यजत् ।


2. ततोऽसौ देशाद्देशान्तरं विचरन् व्याकरणवेदान्तादीन्यनेकशास्त्राणि विशेषत: योगपद्धतिं च अशिक्षत । विचरणकालेऽयं नर्मदातीरे स्वामिपूर्णानन्दसरस्वतिसकाशात् संन्यासमगृह्णात् । तदा एष: ‘दयानन्दसरस्वतीति’ नाम्ना प्रसिद्धः जातः । अनन्तरं मथुरां | गत्वा प्रज्ञाचक्षुषः स्वामिन: विरजानन्दात् बहुविधानि शास्त्राणि अशिक्षत। विद्यासमाप्तौ | गुरुस्तमादिशत्-वत्स ! देशोऽयमस्माकमविद्यान्धकारे पतितो वर्तते तद् गच्छ अविद्यान्धकारम् अपनय । आर्षशास्त्राणि उद्धर वैदिकज्योति: च पुन: प्रकाशय । दयानन्दोऽपि गुरोराज्ञां शिरसि कृत्वा पादौ प्रणम्य आशिषं च गृहीत्वा एतद्देशवासिन: मानवान् अविद्यान्धकाराद् उद्धर्तुं कार्यक्षेत्रं समागतः । गुरोराज्ञां पालयन् देशसमाजयो: उन्नत्यै निरन्तरं भारतीयसंस्कृतेः प्रचारमकरोत् । पाखण्डोन्मूलनाय वैदिकधर्मस्य च पुन:संस्थापनाय अयं सम्पूर्णदेशे बभ्राम। सामाजिककुप्रथानां निवारणाय एष: आर्यसमाजस्य स्थापनां कृतवान्। महर्षिः विधवाऽबलानां दलितवर्गाणां गवां च उद्धाराय सदैव प्रायतत । स्वातन्त्र्यभावनाऽपि प्रथममनेनैव महर्षिणास्माकं हृदयेषु जागरिता । नानाविधानि दुःखानि सोढ्वापि नायं कर्त्तव्यविमुखो जातः । येनास्य महापुरुषस्य ख्याति: सर्वत्र व्याप्ता ।


3. अयं महापुरुष: चिरोपेक्षितवेदानां प्रचारमकरोत् । एतस्य विशिष्टः सन्देश: आसीत् यत्-जना: वेदान् प्रत्यागच्छेयुः । ऋग्वेदादिभाष्यभूमिका-सत्यार्थप्रकाश-संस्कारविधिप्रभृतिग्रन्थाः एतेन विरचिताः । अक्टूबरमासे त्रिंशत् दिनाङ्के त्र्यशीत्युत्तराऽष्टादशशततमे (30/10/1883) ईशवीये वर्षे एष: भौतिकं शरीरं विहाय यश:शरीरेणामरोऽभवत् ।
महर्षिः दयानन्दः सत्यस्य धैर्यस्य ब्रह्मचर्यस्य च मूर्तिरासीत् । एतस्य चरितं सदैव भारतीयानां कृते अनुकरणीयमस्ति । एतादृशा: महात्मानः सर्वदा वन्द्या अविस्मरणीयाश्च भवन्ति

शब्दार्थ:

षोडशवर्षीयः – सोलह वर्ष का । पितृव्य: – चाचा । एकस्मिन्दिने – एक दिन । योगपद्धतिम् – योग की प्रक्रिया को। प्रज्ञाचक्षुषः – ज्ञाननेत्र वाले/सूर से (पञ्चमी)। अविद्यान्धकारे – अज्ञानता रूपी अन्धकार में। आर्षशास्त्राणि – ऋषियों द्वारा रचित शास्त्रों को । पाखण्डोन्मूलनाय – आडम्बर/दिखावा/झूठ को दूर करने के लिए। सोढ्वाऽपि – सहकर भी। चिरोपेक्षितवेदानाम् – बहुत समय से उपेक्षित वेदों का। एतादृशा: महात्मानः- एसा महापुरुष 09


अभ्यास: एकपदेन उत्तरं लिखत –

(क) दयानन्दस्य जन्म कस्मिन् प्रदेशे अभवत् ?

ख) दयानन्द: कस्मात् बहुविधानि शास्त्राणि अशिक्षत ?

(ग) महर्षिः कस्य स्थापनां कृतवान् ?

(घ) दयानन्द: कयो: उन्नत्यै भारतीयसंस्कृतेः प्रचारमकरोत् ?

(ङ) दयानन्दस्य चरितं केषां कृते अनुकरणीयमस्ति ?


एकवाक्येन उत्तरं लिखत –

(क) दयानन्दस्य जन्मनाम किम् आसीत् ?

(ख) संन्यासग्रहणानन्तरं महर्षिः केन नाम्ना प्रसिद्धः ? (

ग) महर्षिः केषाम् उद्धाराय सदैव प्रायतत् ?

(घ) दयानन्द: केषां प्रचारमकरोत् ?

(ङ) दयानन्द: कस्य मूर्तिरासीत् ?


अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) दयानन्दः किमर्थं स्वगृहमत्यजत् ? (

ख) विद्यासमाप्तौ गुरु: दयानन्दं किम् आदिष्टवान् ?

(ग) दयानन्देन के ग्रन्थाः विरचिता: ?

प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –


(अविद्यान्धकारात्, संन्यासमगृह्णात् , यशः, दुःखानि, वेदान्)

(क) महर्षिः पूर्णानन्दसरस्वतीसकाशात् .. (

ख) दयानन्द: मानवान् …………………… उद्धर्तुं कार्यक्षेत्रे समागतः।

(ग) जना: …………………….. प्रत्यागच्छेयुः इति महर्षेः सन्देशः।

(घ) दयानन्दः ……………. सोवापि कर्त्तव्यविमुख: न जातः।


(ङ) महर्षिः ……………….. शरीरेण अमरः अस्ति।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top