MpBoard Class 10 Sanskrit Solution Chapter 5

MpBoard Class 10 Sanskrit Solution Chapter 5

सम्पूर्ण पाठ संस्कृति और हिंदी में प्रश्न उत्तर हल सहित

MpBoard Class 10 Sanskrit Solution Chapter 5

षष्ठः पाठः यशः शरीरम्

पाठ का हिंदी अनुवाद संस्कृत सहित


संसारे बहवः जना: जन्म ग्रह्णन्ति किन्तु तेषु अल्पजना: एव संसारे ख्याति प्राप्य यशो लभन्ते। ये स्वसुखं स्वार्थं च परित्यज्य लोकमङ्गलभावनया लोककल्याणार्थं कार्यं कुर्वन्तिते एव यश:शरीरेण जीवन्ति। ये स्वार्थमात्रं चिन्तयन्ति ते तु जीवन्तोऽपि मृता इव तिष्ठन्ति।
अस्या: भावनाया: विकासाय बालावबोधनाय च सङ्कलिता कथा अत्र प्रस्तूयते।


गङ्गातीरे मार्कण्डेय: नाम कश्चन मुनि: वसति स्म। तस्य गुरुकुले बहवः शिष्या: आसन् । वासुदेव: तस्य प्रियशिष्यः । तस्य द्वादशवर्षात्मकम् अध्ययनं यदा समाप्तं तदा गुरुः तम् आहूय अवदत्-“शिष्य ! अधुना भवान् सर्वविद्यापारङ्गत: अस्ति। अत: इतः परं स्वग्रामं गन्तुम् अर्हति भवान् । गमनात् पूर्वं भवता द्वारकापुरस्य देवराजस्य गृहं दृष्ट्वा आगन्तव्यम् । किन्तु गृहस्यान्त: न गन्तव्यम्” इति।


वासुदेवः तस्मिन् एव दिने द्वारकापुरं प्रति प्रस्थितवान् । दिनत्रयात्मकस्य प्रयाणस्य अनन्तरं तं ग्रामं प्राप्य स: ग्रामद्वारे स्थितान् जनान् अपृच्छत् – “देवराजस्य गृहं कुत्र?” इति। “वृथा किमर्थं गम्यते तत्र ?” इति उपेक्षया वदन्त: ते देवराजगृहस्थलं सूचितवन्तः । अग्रे गत: स: कूपात् जलम् उद्धरन्तीं महिला याचित्वा जलं प्राप्य तत् पिबन् ताम् अपृच्छत् – “देवराजगृहं कुत्र?” “तस्य पापिन: नाम किमर्थं मम पुरत: उच्चारयति भवान् ?’ इति वदन्ती सा महिला तत: निरगच्छत् एव ।

MpBoard Class 10 Sanskrit Solution Chapter 5
किञ्चिदग्रे गत: वासुदेव: कञ्चित् देवालयम् अपश्यत् । तत्र प्रसादत्वेन भोजनवितरणं प्रचलति स्म । नितरां बुभुक्षितः वासुदेव: जनानां पङ्क्तौ उपाविशत् । भोजनसमये स्वपार्श्वे उपविष्टवन्तं कञ्चित् जनम् अपृच्छत् वासुदेव: – “देवराज: किं धनिकः ?” इति । तदा स: पार्श्वस्थ: जन: – “धिक् भवन्तम् । भोजनकाले तस्य पापिन: नाम स्मारितम्” इति वदन् भोजनं परित्यज्य उत्थितः एव । एतत् दृष्ट्वा परिवेषका: वासुदेवाय अन्नं पायसादिकं न परिविष्टवन्तः एव । अपूर्णोदरः एव सः ततः उत्थितवान् ।


दूरात् एव देवराजस्य गृहं दृष्ट्वा प्रत्यागत: स: दिनद्वयस्य अनन्तरं गुरुकुलं प्राप्तवान् । गुरु: तं पुनः अवदत् – “रामनाथपुरं गत्वा रामदेवस्य गृहं ज्ञात्वा आगन्तव्यम्” इति । शिष्य: अनन्तरदिने एव रामनाथपुरं प्रति प्रस्थितवान् । मध्यमार्गं तेन सोमपुरं प्राप्तम्। तत्र स्वगृहस्य पुरतः उपविष्टां काञ्चित् मातरम् अवदत् स: – “अम्ब ! किञ्चित् जलं ददातु” इति ।
जलं दत्वा माता अपृच्छत् – “भवता कुत्र गम्यते ?” इति। “रामदेवस्य गृहं प्रति” इति अवदत् वासुदेवः ।
“अहो, प्रात: स्मरणीय: सः” इति उक्त्वा सा माता वासुदेवं सस्नेहम् अन्त: नीत्वा भोजनादिकं दत्वा सत्कृतवती। ततः निर्गत: वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहं कुत्र ?’ इति कञ्चित् अपृच्छत् । स: अपि सत्कृत्य स्वयम् आगत्य रामदेवगृहं प्रादर्शयत् । दूरात् एव तत् दृष्ट्वा वासुदेव: गुरुकुलं प्रत्यगच्छत् ।


दिनद्वयस्य अनन्तरं गुरु: अकथयत्- “वासुदेव! भवान् इतः स्वगृहं गन्तुम् अर्हति। गमनात् पूर्वं भवता देवराज – रामदेवयोः पूर्ण: परिचय: प्राप्तव्यः” इति।
एतम् आदेशं पालयन् वासुदेवः पुनरपि द्वारकापुरं प्राप्य देवराजस्य गृहम् अगच्छत् । वैभवोपेतं गृहं तत् । द्वाररक्षक: तस्य प्रवेशं निषिद्धवान् । बहुधा प्रार्थना यदा कृता तदा स: अन्त: गत्वा देवराजं वासुदेवागमनं निवेदितवान् । कोपेन एव बहिः आगत्य देवराज: – “किं धनं याचितुम् आगतं भवता ? मया कस्मैचित् किमपि न दीयते । मम विश्रान्ति: नाशिता भवता। निर्गम्यताम् इत:” इति तर्जयित्वा तं प्रेषितवान् ।

http://upboardinfo.in/mp-board-class-10-sanskrit-solution-chapter-4/


तत: वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहम् अगच्छत् । पर्णैः निर्मितं प्राचीनं गृहं तत् । कश्चन् युवक: तं सादरं स्वागतीकृत्य पानीयभोजनादिभिः तं सत्कृत्य विश्रान्त्यर्थं व्यवस्थाम् अकरोत् । विश्रान्ते: अनन्तरं स: ‘अहं रामदेवस्य पुत्रः’ इति स्वपरिचयम् उक्त्वा आगमनकारणम् अपृच्छत् । यदा वासुदेव: रामदेवस्य दर्शनेच्छां प्राकटयत् तदा पुत्र: एकं भावचित्रं प्रदर्श्य – “मम पिता विंशतिवर्षेभ्य: पूर्वम् एव दिवं गतः । इदानीं तस्य स्मृतिमात्रम् अस्ति लोके” इति विषादेन अवदत् । रामदेव: ग्रामस्य विकासाय देवालय-चिकित्सालय-विद्यालय-ग्रन्थालय-धर्मशालोद्यानानि यानि कारितवान् तत्सर्वम् अपश्यत् वासुदेवः । ग्रामे सर्वे रामदेवं सगौरवं स्मरन्ति स्म।


‘देवराजे जीवति सति अपि कोऽपि तस्मिन् आदरवान् न । रामदेव: तु विंशतिवर्षेभ्य: पूर्वम् एव दिवं गत: चेदपि जनाः प्रतिदिनं तं स्मरन्ति । य: समाजहितं चिन्तयति स: मृतोऽपि जीवति । य: स्वार्थमात्रं चिन्तयति सः तु जीवन्नपि मृत: एव’ इति अवगतवान् वासुदेव: ‘मया रामदेवस्य जीवनम् एव अनुसरणीयम्’ इति सङ्कल्प्य स्वग्रामम् अगच्छत् ।

किम् के शब्द रूप पढ़ने के लिए यहां पर click करे


शब्दार्थ:


बहवः – बहुत सारे । आहूय – बुलाकर । सर्वविद्यापारङ्गत: – समस्त विद्याओं में निपुण । गृहस्यान्तः – घर के अन्दर। वृथा – व्यर्थ में। वदन्तः – बोलते हुए। उद्धरन्तीम् – निकालती हुई को। याचित्वा – माँगकर। पिबन् – पीते हुए। पुरत: सामने की ओर । उच्चारयति – उच्चारण करता है/बोलता है। वदन्ती – बोलती हुई। निरगच्छत् – चली गई/निकल गई। प्रसादत्वेन – प्रसाद के रूप में। नितराम् – बहुत अधिक । बुभुक्षित: – भूखा । पङ्क्तौ – पंक्ति में/पंगत में। स्वपार्श्वे – अपने पास में। पार्श्वस्थ: – पास में स्थित/बैठे हुए। धिक् – धिक्कार है। पापिन: – पापी का । वदन् – बोलते हुए। उत्थितः – उठ गया। परित्यज्य – छोड़कर । परिवेषका: – खाना परोसने वाले । पायसादिकम् – खीर इत्यादि । परिविष्टवन्त: – परोसा। प्रत्यागतः – लौट आया। ज्ञात्वा – जानकर । मध्यमार्गम् – रास्ते के बीच में । सत्कृत्य – सत्कार करके । प्रादर्शयत् – दिखाया। वैभवोपेतम् – वैभव, विशालता से युक्त को। निषिद्धवान् – रोका। निर्गम्यताम् – निकल जाओ। तर्जयित्वा – डाँटकर । दर्शनेच्छाम् – देखने की इच्छा को । भावचित्रम् – छायाचित्र को । मृतोऽपि – मरकर भी। जीवन्नपि – जीते हुए भी। सङ्कल्प्य – सङ्कल्प लेकर

प्रश्न ओर उत्तर
एकपदेन उत्तरं लिखत –

(क) मार्कण्डेय: नाम ऋषि: कुत्र वसति स्म ?

(ख) वासुदेव: कस्य प्रियशिष्यः आसीत् ?

(ग) वासुदेवः प्रथमं कस्य गृहं प्रति प्रस्थित: ?

(घ) रामदेव: कस्मिन् ग्रामे वसति स्म ?

(ङ) जना: प्रतिदिनं कं स्मरन्ति स्म ?


एकवाक्येन उत्तरं लिखत –

(क) क: मृतोऽपि जीवति ?

(ख) क: जीवनन्नपि मृत: एव ?

(ग) देवालये किं प्रचलति स्म ?

(घ) जलं दत्वा माता किम् अपृच्छत् ?

(ङ) भोजनपरिवेषका: किं कृतवन्त: ?


अधोलिखितप्रश्नानाम् उत्तराणि लिखत –

(क) कोपेन देवराजः किम् उक्तवान् ?

(ख) पुत्रः वासुदेवं विषादेन किमुक्तवान् ?

(ग) यदा वासुदेवस्य अध्ययनं समाप्तं तदा गुरु: तमाहूय किमवदत् ?


प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –
(बहवः, भोजनम्, मध्यमार्गम्, रामदेवस्य, देवालयम्)

(क) तत्र प्रासादत्वेन .
प्रचलति स्म।

(ख) वासुदेव: कञ्चित् .. ……………………. अपश्यत् ।

(ग) मया ……………………………. जीवनम् एव अनुसरणीयम् ।

(घ) गुरुकुले ……………………….. शिष्या: आसन् ।

(ङ) ………………………. तेन सोमपुरं प्राप्तम्।


यथायोग्यं योजयत

अ। आ
(क) मार्कण्डेयः। रामदेवः

(ख) वासुदेवः
गुरुकुलम्

(ग) द्वारकापुरम्
मुनिः (घ) रामनाथपुरम्
देवराजः

(ङ) गङ्गातीरे
शिष्यः


शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –

(क) गुरुकुले बहवः शिष्या: आसन् ।

(ख) मध्येमार्गं तेन रत्नपुरं प्राप्तम्।

(ग) ग्रामे सर्वे देवराजं सगौरवं स्मरन्ति स्म ।

(घ) रामदेवः प्रात:स्मरणीय: आसीत् ।

(ङ) रामदेवस्य गृहं वैभवोपेतम् आसीत्।


अधोलिखितपदानां मूलपदं विभक्तिं वचनं च लिखत – पदम्। मूलपदम् विभक्ति। वचन

यथा – विषादेन विषाद तृतीया | एकवचनम्

(क) कूपात्

(ख) गङ्गातीरे

(घ) मम

(ङ) तम्

(च) ग्रामे

उदाहरणानुसारं पदानां प्रकृति प्रत्ययं च पृथक्कुरुत –


पदम् धातु प्रत्ययः
यथा- वदन्ती वद्। शतृ
(क) गन्तव्यम्
(ख) प्रस्थितवान्
(ग) प्राप्तवान्
(घ) उक्त्वा
(ङ) सत्कृत्य
(च) आगत्य
(छ) याचित्वा
(ज) वदन्तः

अधोलिखितशब्दानां पर्यायशब्दान् लिखत –
यथा -जलम्

(ख) युवकः

(ग) अम्ब
(घ) बुभुक्षितः

10. अधोलिखितवाक्यानां कथानुसारेण क्रमसंयोजनं कुरुत –
(क) तत: वासुदेव: रामनाथपुरं प्राप्य रामदेवस्य गृहम् अगच्छत् ।

(ख) गङ्गातीरे मार्कण्डेय: नाम कश्चन मुनि: वसति स्म।
(ग) मया रामदेवस्य जीवनम् एव अनुसरणीयम् ।

(घ) किञ्चिदग्रे गत: वासुदेव: कञ्चित् देवालयम् अपश्यत् ।

(ङ) शिष्य: अनन्तरं रामनाथपुरं प्रति प्रस्थितवान् ।
(च) वासुदेवः तस्य प्रियशिष्य: आसीत् ।

1 thought on “MpBoard Class 10 Sanskrit Solution Chapter 5”

  1. Pingback: Mp Board Class 10 Sanskrit Solution Chapter 6: - UP Board INFO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top