up board class10 sanskrit solution chapter 12 din bandhu jyotibafule द्वादशः पाठः दीनबन्धुः ज्योतिबाफुले

up board class10 sanskrit solution chapter 12 din bandhu jyotibafule द्वादशः पाठः दीनबन्धुः ज्योतिबाफुले

द्वादशः पाठः दीनबन्धुः ज्योतिबाफुले

(दीनबन्धु ज्योतिबाफुले) [प्रस्तुत पाठ प्रसिद्ध समाज-सुधारक दीनबन्धु ज्योतिबाफुले पर आधारित है। ज्योतिबाफुले ने अपना सम्पूर्ण जीवन समाज सेवा में ही समर्पित कर दिया। दलित उत्थान एवं स्त्री-शिक्षा के क्षेत्र में इनका योगदान प्रशंसनीय है। देश में सर्वप्रथम बालिका विद्यालय की स्थापना इन्हीं की देन है। इनके समय में अस्पृश्य लोग उच्च वर्ग के कुएँ से पानी नहीं ले सकते थे। इन्होंने नगरपालिका के सौजन्य से जगह-जगह दलितों के लिए कुएँ खुदवाये। इन्होंने ‘सत्यशोधक समाज’ की स्थापना की।]

ज्योतिरावगोविन्दराव इत्याख्यस्य जन्म अप्रैल मासस्य एकादश दिनांके सप्तविंशत्यधिक अष्टादश ख्रीष्टाब्दे (11 अप्रैल, 1827) पुणे नामके स्थानेऽभवत्। अयं महात्मा फुले एव ज्योतिबाफुले नाम्ना प्रचलितो एको महान भारतीय विचारकः, समाज सेवकः, लेखकः, दार्शनिकः, क्रान्तिकारी, कार्यकर्ता च आसीत्। त्र्यधिकसप्ततिः अष्टादशशततमे ख्रीष्टाब्दे (1873) अयं महाराष्ट्र सत्यशोधकसमाजनामकी संस्थां संगठितवान्। नारीणां दलितानाञ्चोत्थानायायमनेकानि कार्याण्यकरोत्। भारतीयाः मानवाः सर्वे शिक्षिताः स्युः अस्य एतत् चिन्तनमासीत्। तस्य पूर्वजाः पूर्वं सतारातः आगत्य पुणे नगरं प्रत्यागत्य पुष्पमालां गुम्फयन् स्वजीवनं निर्वापया-मास। परिणामस्वरूपे मालाकारस्य कार्ये संलग्नाः इमे ‘फुले’ नाम्ना विख्याताः अभवन्। महानुभावोऽयं प्रारम्भिक काले मराठी भाषां अपठत् किन्तु दैववशात् अस्य शिक्षा मध्येऽवरुद्धा संजाता। सः पुनः पठितुं मनसि विचार्य एकविंशति वर्षस्यावस्थायां

आंग्लभाषायाः सप्तम्याः कक्षायाः शिक्षा पूरितवान्। चत्वारिंशत् अधिका- ष्टादशशततमे (1840) ख्रीष्टाब्दे अस्य विवाहः सावित्री नाम्नाः कन्यया साकमभवत्। अस्य भार्यापि स्वयमपि एका प्रसिद्धा समाजसेविका संजाता। समाजस्योन्नतये स्वभार्यया सह मिलित्वाऽयं दलितोत्थानाय स्त्रीशिक्षायै च कार्यमकरोत्। ज्योतिबा फुले भारतीय समाजे प्रचलितजात्याधारितविभाजनस्य पक्षे नासीत्। सः वैधव्ययुक्तानां नारीणां एवं अपराणांनारीणां कृते महत्त्वपूर्ण कार्य कृतवान्। कृषकाणां दशां वीक्ष्य दुःखितोऽयं तेषां उद्धाराय सतत् प्रयत्नशीलः आसीत्। स्त्रीणांमसफलतायाः कारणं तेषामशिक्षैव विद्यते इति विचार्य सः अष्ट- चत्वारिंशत् अधिकाष्टादश ख्रीष्टाब्दे (1848 ई.) एकः विद्यालयः संचालितवान्। अस्य कार्याय देशस्यायं प्रथमो विद्यालयः आसीत्। बालिका-शिक्षायै शिक्षिकायाः स्वल्पता दृष्ट्वा सः स्वयमेव शिक्षकस्य भूमिकां अनिर्वहत्। अनन्तरं स्वभार्यां शिक्षिकारूपेण नियुक्तवान्। उच्चसंवर्गीयाः जनाः प्रारम्भ कालाद् एव तस्य कार्ये बाधां स्थापयितुं कटिबद्धाः आसन्। परञ्च अयं स्वकार्ये प्रयतमानः अग्रगण्यः अभवत्। तं अग्रे गतिशीलं दृष्ट्वा ते दुर्जनाः तस्य पितरं प्रति अशोभनीयं कथनम् अकथयन्।

ते दुर्जनाः एव दम्पतिं स्वगृहात् बहिः प्रेषितवन्तः। स्वगृहात् बहिर्गमने सति तथ्य कार्यावरुद्धं संजातम् परञ्च शीघ्रातिशीघ्रमेव सः बालिकाशिक्षायै त्रयो विद्यालयाः उद्घाटितवान्।।

अस्य हृदि सन्तमहात्मानं प्रति बहुरुचिरासीत्। तस्य विचारेषु ईश्वरस्य सम्मुखे नर-नारी सर्वे समानाः सन्ति। तेषु श्रेष्ठता लघुता अशोभनीया विद्यते। दलितजनानामसहायानाञ्च न्यायार्थं महापुरुषोऽयं ‘सत्यशोधक समाजम्’ स्थापितवान्। अस्य सामाजिकसेवाकार्यं विलोक्य अष्टाशीति अधिकाष्टादशशततमे ख्रीष्टाब्दे (1888 ई.) मुम्बई नगरस्य एका विशाल सभा तं महात्मा’ इत्युपाधिना अलंकृतवान्। ज्योतिबा महोदयेन ब्राह्मण पुरोहितेन बिनैव विवाह संस्कारमकारयत्। अस्य संस्कारस्य मुम्बई न्यायालयात् मान्यता सम्प्राप्ता। स तु बालविवाहस्य विरोधी एवञ्च विधवा विवाहस्य समर्थकः आसीत्। स्वजीवनकाले स तु अनेकानि पुस्तकानि अलिखत् यथा-तृतीय रत्नं, छत्रपति शिवाजी, राजाभोसले इत्याख्यस्य पँवाडा, ब्राह्मणानां चातुर्यम्, कृषकस्य कशा (किसानों का कोड़ा) अस्पृश्यानां समाचारं (अछूतों की कैफियत) इत्यादयः। महात्मा ज्योतिबा एवं तस्य संगठनस्य संघर्ष कारणात् सर्वकारेण ‘एग्रीकल्चरएक्ट’ इति स्वीकृतम्। धर्मसमाजस्य परम्परायाः सत्यं सर्वेषां सम्मुखमानेतुं तेन अन्यानि अपराणि पुस्तकानि रचितानि। ज्योतिबा बुद्धिमान्, महान् क्रान्तिकारी, भारतीय विचारकः, समाज सेवकः, लेखकः दार्शनिकश्चासीत्। महाराष्ट्रनगरे धार्मिक संशोधनमान्दोलनं प्रचलनासीत्। जातिप्रथामुन्मूलनार्थमेकेश्वरवादं स्वीका ‘प्रार्थना समाजस्य’ स्थापना संजाता। अस्य प्रमुखः गोविन्द रानाडे आरजी भण्डारकरश्चासीत्। अयं महान् समाजसेवकः अस्पृश्यानां उद्धाराय सत्यशोधक समाजस्य स्थापनां अकरोत्। महात्मा ज्योतिबा फुले (ज्योतिराव गोविन्द राव फुले) महोदयस्य मृत्युः नवम्बर मासस्य अष्टविंशति दिनांके नवत्यधिक अष्टादशशततमे ख्रीष्टाब्दे (28 नवम्बर,1890 ई.) पुणे नगरे अभवत्।

अस्पृश्यानां दुःखोन्मूलने अस्य भूमिका अकथनीया विद्यते। पुणे नगरे दलितानां गतिः शोचनीयासीत्। उच्च जातीनां कूपात् जलं नेतुं ते मुक्ताः नासन्। ते दलिताः सन्ति। अतः तेषां तस्मात् कूपात् जलं आनेतुं नाधिकारः। दलितानामेतादृशीं दुर्दशां दृष्ट्वा तस्य हृदयं विदीर्णो जातः। तदैव सः स्वमनसि विचारयामास यत् एषाम् दुःखम् दूरी करणीयम्। अयं महानुभावः तेषां अमानवीय व्यवहारं दृष्ट्वा सः स्व गृहस्य जल संचय कूपं अस्पृश्यानां कृते मुक्तं कृतवान्। सः नगरपालिकायाः सदस्यः आसीत्। अतः तेषां कृते सार्वजनिक स्थाने जल सञ्चय कूपम् स्यात् एतत् प्रबन्धनं कृतम्। मालाकार समाजस्य महात्मा ज्योतिबा फुले एव एतादृशः महामानवः आसीत्। यः निम्न जातीनां जानानां कृते समानतायाः अधिकारस्य आजीवनं कार्यमकरोत्। _अस्य सहधर्मचारिणी सावित्रीबाई अस्य कार्येण प्रभाविता आसीत्। अतः सा नारी शिक्षेतुं कटिबद्धासीत्। यदा सा नारी पाठयितुं प्रारब्धवती तदैव दलितविरोधिनः उच्चस्वरैः विरोध प्रकटयन् उक्तवन्तः। यत् एका हिन्दूनारी शिक्षिका भूता समाजस्य धर्मस्य च विरोधं कर्तुं शक्नोति। नारी जातेः पठन-पाठनं धर्मविरुद्धं वर्तते। सावित्रीबाई यदा विद्यालयं गच्छति स्म तदा तस्याः उपरि मृत्तिकां-गोमयं-प्रस्तरखण्डं नारी शिक्षा विरोधिनः प्रक्षेपयन्ति स्म। एवञ्च व्यंग्यवाणैः अपीडयन् तथापि सा स्वकर्त्तव्यात् विमुखा न संजाता। मराठी शिक्षकः शिवरामभवालकरः अस्याः प्रशिक्षकः आसीत्। इयं उपेक्षितानां दलित नारीणां कृते बहु विद्यालयं संचालितवती।

द्विपंचाशत् अधिकाष्टादशशततमे ख्रीष्टाब्दे फरवरी मासस्य सप्तदशदिनांके (17 फरवरी, 1852) अस्य विद्यालयस्य निरीक्षणं संजातम्। परिणामस्वरूपे अस्य अष्टादश विद्यालयाः संचालिताः अभवन्। नवम्बरमासस्य षोडश दिनांके विश्रामबाड़ा इत्यस्मिन् स्थाने सार्वजनिक अभिनन्दनसमारोहे अस्याः अभिनन्दनं सम्पन्नम्। अस्माकं देशस्य इतिहासे सावित्री फुले प्रथम दलित शिक्षिकायाः गौरवेणालंकृता।

काठिन्य निवारण (शब्दार्थ)

प्रचलितो = प्रसिद्ध। समाजसेवकः = समाजसेवी। संगठितवान् = संगठित किया। प्रत्यागत्य = लौटकर। आंग्लभाषायाः = अंग्रेजी भाषा का। ख्रीष्टाब्दे = शताब्दी में। भार्यापि = पत्नी भी। संजाता = हो गयीं। उद्धाराय = उद्धार के लिए। सतत् = निरन्तर। अनन्तरं = बाद में। बहुरुचिरासीत् = बहुत रुचि थी। सम्मुखे = सामने। श्रेष्ठता = उच्च। लघुता = निम्न। स्थापितवान् = स्थापित किया। अलंकृतवान् = सुशोभित किया। विलोक्य = देखकर। सम्प्राप्ता = प्राप्त हो गयी। संघर्ष = लड़ाई। संजाता = हुई। अस्पृश्यानां = अछूतों के। दुःखोन्मूलने = कष्ट दूर करने में। शोचनीयासीत् = चिन्तनीय थी। मनसि = मन में। सञ्चय = इकट्ठा करने के लिए। मालाकारः = माली। आजीवनं = जीवनपर्यन्त। सहधर्मचारिणी = पत्नी। कार्येण = कार्य से। शिक्षेत्तुं = शिक्षा के लिए। मृत्तिकां = कीचड़, मिट्टी। गोमयं = गोबर।

प्रस्तरखण्डं = पत्थर के टुकड़े। प्रक्षेपयन्ति स्म = फेंकते थे। अपीडयन् = पीड़ा पहुँचाते थे। मासस्य = महीने के। अभिनन्दन समारोहे = स्वागत समारोह में। स्थाने = स्थान पर। इतिहासे = इतिहास में। अलंकृता = सुशोभित किया।

अभ्यास प्रश्न—-

  1. दीनबन्धु ज्योतिबाफुले’ पाठ का सारांश हिन्दी में लिखिए।

2-निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए

(क) ज्योतिराव गोविन्दराव इत्याख्यस्य ……… कार्याण्यकरोत् कथनमुक्ता।

(ख) महात्मा ज्योतिबा .. ………………. पुणे नगरे अभवत्।

(ग) अस्पृश्यानां दुःखोन्मूलने ……….. आजीवनं कार्यमकरोत्।

(घ) अस्य सहधर्मचारिणी सावित्रीबाई ……………. बहुविद्यालयं संचालितवती।

(ङ) द्विपंचाशत् अधिकाष्टादशशततमे…. गौरवेणालंकृता।

(च) ज्योतिबा फुले भारतीय समाजे………. शिक्षिकारूपेण नियुक्तिवान्।

(छ) अस्य हृदि ……………..… अलङ्कृती।

निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए।

(क) ज्योतिबाफुले का जन्म कब और कहाँ हुआ था?

(ख) महाराष्ट्र में ‘सत्यशोधक समाज’ की स्थापना किसने की?

(ग) सत्यशोधक समाज की स्थापना कब हुई?

(घ) ज्योतिबाफुले का विवाह किसके साथ हुआ था?

(ङ) ज्योतिबाफुले के पूर्वज जीवनयापन हेतु कौन सा व्यवसाय करते थे?

(च) ज्योतिबाफुले की रचनाओं के नाम लिखिए।

(छ) ज्योतिबाफुले का निधन कब हुआ था?

(ज) शिवराम भवालकर कौन थे?

निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए—

(क) ज्योतिराव गोविन्दराव इत्याख्यस्य जन्म कदा अभवत्?

(ख) ज्योतिबाफुले कः आसीत् ?

(ग) सत्यशोधक समाजस्य स्थापना कः अकरोत् ? (घ) ज्योतिबाफुले दलितोत्थानाय किम् अकरोत् ?

(ङ) देशस्य प्रथमो बालिका विद्यालयः केन स्थापितः?

5. ख्रीष्टाब्दे, प्रयत्नशीलः, संचालितवान् शब्दों का प्रयोग स्वनिर्मित संस्कृत वाक्यों में कीजिए।

6. भू धातु के लङ् लकार के प्रथम पुरुष के तीनों वचनों का रूप लिखिए।

7. निम्नलिखित शब्दों का सन्धि-विच्छेद लिखिए

प्रत्यागत्य, दलितोत्थानाय, सामजस्योन्नतये गौरवेणालंकृता, इत्युपाधिना, इत्याख्यस्य।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top