up board class10 sanskrit solution chapter 3 naitik moolyani तृतीयः पाठः नैतिकमूल्यानि

up board class10 sanskrit solution chapter 3 naitik moolyani तृतीयः पाठः नैतिकमूल्यानि

तृतीयः पाठः नैतिकमूल्यानि. (नीति सम्बन्धी मूल्य)

[उस क्रियाविधि को जिसके अनुसार मनुष्य अपने जीवन को सुचारु और सफलता से बिता सके, नीति कहते हैं। नीति के मूल्यों को ही नैतिक मूल्य कहते हैं। नीति पर चलने से, उसका व्यवहार करने से, जनता का, शासकों का तथा समस्त प्राणिमात्र का कल्याण होता है। कवियों तथा नीतिकारों ने कथाओं और श्लोकों के द्वारा नीति-ग्रन्थों की रचना की है। यथा- चाणक्य नीति, विदुरनीति, विदुलोपाख्यान, पञ्चतन्त्र, शुक्रनीति, नीतिसार, भर्तृहरि कृत नीतिशतक आदि शिक्षा देते हैं कि सच बोलना, हिंसा न करना, चुगली न करना, गरीबों को दान देना, दया, सहनशीलता, परोपकार, विनयशीलता, अतिथि-सत्कार आदि नैतिक आचरण हैं। नीति का निर्माण जन-समाज को आगे बढ़ानेवाला होता है। ]

नयनं नीति:, नीतेरिमानि मूल्यानि नैतिकमूल्यानि। यया सरण्या कार्यकरणेन मनुष्यस्य जीवनं सुचारु सफलञ्च भवति सा नीति: कथ्यते। इयं नीति: केवलस्य जनस्य समाजस्य कृते एव न भवति, अपितु जनानां, नृपाणां समेषां च व्यवहाराय भवति। नीत्या चलनेन, व्यवहरणेन, प्रजानां शासकानां समस्तस्य लोकस्यापि कल्याणं भवति।

पुरातनकालादेव भारते कवयः नीतिकारा: मनोरमया सरसया गिरा नीतिवाक्यानि, कथाभिः श्लोकैश्च व्यरचयन्। इत्थं नीतिशास्त्राणि व्यवहारविदे, कान्तासम्मिततयोपदेशयुजे बभूवुः। फलन्त्विदं सम्पन्न साधारणाः अपि जनाः व्यवहाराय नीतिवाक्यानि नीतिश्लोकांश्च गलविलाधः कुर्वन्ति स्म। यथा च चाणक्यनीतिः, विदुरनीति:, विदुलोपाख्यानम्, पञ्चतन्त्रम्, शुक्रनीति:, घटकर्परकृतः नीतिसार:, सुन्दरपाण्डेयेन कृता नीतिद्विषष्टिका’, भल्लाटशतकम्, भर्तृहरिकृतम् नीतिशतकम्, ‘बल्लालशतकम्’, ‘दृष्टान्तशतकम्’ इत्यादि बहूनि नीतिपुस्तकानि संस्कृते उपलभ्यन्ते। _ विचार्यमाणे साहित्ये आदिकालादेव सर्वेष्वपि राष्ट्रेषु अयं विश्वास: प्रचलितः आसीत्, यत् काव्यस्यान्येषु प्रयोजनेषु सत्स्वपि एकं मुख्यं प्रयोजनं नैतिकः परितोषः। प्लेटो, अरस्तू, पेटर, होरेसादि सर्वैः विचारकैः काव्यस्य मुख्यं प्रयोजनं नैतिकविकासः एव स्वीकृतः।।

नैतिकमूल्यैः व्यक्तेः सामाजिकी प्रतिष्ठाभिवर्धते। मानवकल्याणाय नैतिकता आवश्यकी। नैतिकतैव व्यक्तेः समाजस्य, राष्ट्रस्य, विश्वस्य कल्याणं कुरुते। नैतिकताचरणेनैव मनुष्येषु त्यागः, तपः, विनयः, सत्यं, न्यायप्रियता एवमन्येऽपि मानवीया: गुणा: उत्पद्यन्ते। नैतिकतया मनुष्योऽन्यप्राणिभ्य: भिन्न: जायते। तदाचरणेन व्यक्तेः समाजस्य च जीवनम् अनुशासितं निष्कण्टकं च भवति। व्यक्तेः समाजस्य, वर्गस्य, देशस्य च समुन्नयनावसरो लभ्यते। समाज: ईर्ष्या-द्वेषच्छल-कलहादिदोषेभ्यः मुक्तो भवति। अस्माकं सामाजिकाः अन्ताराष्ट्रियाः सम्बन्धाः नैतिकताचरणेन दृढाः भवन्ति। अत: नैतिकताशब्द: सच्चरित्रतावाचकः, सुखमयमानवजीवनस्याधारः अस्ति।

इदन्तु सम्यक् वक्तुं शक्यते यत् नैतिकताचरणस्य, नैतिकतायाश्च मुख्यमुद्देश्यं स्वस्य अन्यस्य च कल्याणकरणं भवति। कदाचित् एवमपि दृश्यते यत् परेषां कल्याणं कुर्वन् मनुष्य: स्वीयाम् हानिमपि कुरुते। एवंविधं नैतिकाचरणं विशिष्टं महत्त्वपूर्णं च मन्यते। परेषां हितं नैतिकतायाः प्राणभूतं तत्त्वम्।

www.upboardinfo.in

कदाचित् एवमपि दृश्यते यत्समाजे प्रचलिता रूढि: समेषां कृते हितकरी न भवति। अत: प्रबुद्धा: विद्वांसः तस्या रूढे: विरोधमपि कुर्वन्ति। परं तैः आचरणस्य व्यवहारे नवीन: आदर्श: स्थाप्यते। य: कालान्तरे समाजस्य कृते हितकरः भवति। एवं सदाचरणेऽपि परिवर्तनं दृश्यते। परं वस्तुत: यानि नैतिकमूल्यानि सन्ति। तेषु परिवर्तनं न भवति। यथा सनातनो धर्म: न परिवर्तते तथा नैतिकमूल्यान्यपि स्थिराणि एव। एवं धर्मे नीतौ च दृढीयान् सम्बन्धो दृश्यते। परं द्वयोः भेदोऽपि वर्तते। धर्मशब्द: व्यापकः अस्ति। नीतिस्तु व्याप्या धर्मे एव विलीयते। यानि अवश्यकरणीयानि कर्त्तव्यानि यैः पुण्यानि नोपलभ्यन्ते तेषामपि गणना धर्मे कृता महर्षिभिः धर्माचार्यैः। नीति: लौकिकं कल्याणं कुरुते। धर्मस्तु लौकिकं पारलौकिकञ्च कल्याणं कुरुते। उभयो: कुत्रापि साङ्कर्यमपि प्राप्यते। धर्मः अलौकिकी शक्तिं प्रकटयति। सः मुक्तेः मार्गमपि प्रशस्तं करोति। परलोकमपि प्रदर्शयति कल्पयति च। नीति: लौकिकं हितं साधयति। परं नीतिधर्मयोः साहचर्यं सर्वैरव स्वीक्रियते।

दार्शनिकैः, धर्माचार्यै: पौराणिकैश्च धर्म: परिभाषित: यथा— “यतोऽभ्युदयनि:श्रेयस्सिद्धिः स धर्मः” यत: यस्मात् कर्मणः, इह लोके कल्याणं जायते, परत्र परलोके च शोभनं स्थानं जनैः लभ्यते नरकापातो न भवेत् येन, स धर्मः। एवं महाभारते-ध्रियते धर्मः, धारणाद्धर्म: यत: धारयते प्रजाः। धर्मशास्त्रकारेण मनुना

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।।

धीविद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ।। इति ।

मनुस्मृतौ दशस्वरूपको धर्मः उपवर्णितः। इत्थं धर्माचरणे नैतिकताचरणे च साङ्कर्यमुपलभ्यते।

तीर्थाटनम्, पावनासु नदीषु स्नानम्, यजनम्, याजनम्, गुरुसेवा, मातृ-पितृसेवा, सन्ध्यावन्दनम्, षोडशसंस्कारा एते मुख्यरूपेण धर्मपदवाच्याः। एषु कर्मसु नीते: मिश्रणं नास्ति। अत: धर्मों व्यापक:। धृति-दयासहिष्णुता-सत्य-परोपकाराद्याचरणेषु द्वयोः साङ्कर्यमस्ति। परमेतत् निश्चितं यत् द्वयोराचरणेन लोकस्य परमं कल्याणं जायते एव। नीतिकाराणां मते इमे नैतिकताया: गुणा: यथा- जीवहिंसाया: विरक्ति:, परधनापहरणान्निवृत्तिः, सत्यभाषणम्, पैशुन्यात् निवृत्तिः, सत्पात्रेभ्य: दीनेभ्यश्च दानम्, अतिलोभात् वितृष्णा, दया, सहिष्णुता, परोपकार:, गुरुजनेष्वनुरागः, श्रद्धा, विनयशीलता च। अनुत्सेकः, आतिथ्यम्, न्याय्यावृत्तिः, परगुणेभ्यः ईर्ष्याऽभाव:, सत्सङ्गानुरक्तिः, दुष्टसङ्गानिवृत्तिः, विपदि धैर्यम्, अभ्युदये क्षमा, सदसि वाक्पटुता, समयस्य सदुपयोगः, इत्यादयः नैतिकताचारा: एषामाचरणेनैव व्यक्तेः समाजस्य, राष्ट्रस्य विश्वस्य च सर्वथा कल्याणं सम्पद्यते।

काठिन्य निवारण

नयनं = ले चलना, आगे बढ़ाना। सरण्या = रीति से, ढंग से। समेषां = सबके। गिरा = वाणी। व्यरचयन् = रचना की। कान्तासम्मिततया = प्रियतमा के उपदेश के समान। गलविलाधः = गले के छेद से नीचे, कंठस्था सत्स्वपि = होते हुए भी। अभिवर्धते = बढ़ता है। निष्कण्टक = बिना बाधा के। स्वीयाम् = अपनी। रूढ़िः = परम्परागत रिवाज। प्रबुद्धाः = जागरूक। व्यापकः = विस्तृत। सांकर्यमपि = मिश्रण भी। प्रशस्तं = अच्छा। श्रेयस्सिद्धिः = कल्याण की पूर्ति। दमः = इच्छाओं को दबाना। अस्तेय = चोरी करना। शौचम् = मानसिक पवित्रता। यजनं = यज्ञ करना। निवृत्ति = हटना। पैशुन्यात् = चुगलखोरी से। अनुत्सेकः = निरहंकारता। वृत्ति = जीविका। वाक्पटुता = बोलने में चतुरता।

अभ्यास प्रश्न

1– ‘नैतिकमूल्यानि’ पाठ का सारांश हिन्दी में लिखिए।

2. निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए l

(क) नयनं नीति: ……………………… भवति।

(ख) पुरातनकालादेव ……………….. उपलभ्यन्ते। (ग) नैतिकमूल्यैः ………………… दृढाः भवन्ति।

नैतिकमूल्यैः ……………………….. कुरुते। नैतिकमूल्यैः नैतिकताचरणेनैव ………………… लभ्यते।

नैतिकमूल्यैः …………………. निष्कण्टकं च भवति।

(घ) तीर्थाटनम् ……………………. जायते एव। अथवा

तीर्थाटनम् ………………… विनयशीलता च।

तीर्थाटनम् …………….. धर्मोव्यापकः। ।

(ङ) नीतिकाराणां मते ………………. सम्पद्यते।

(च) इदन्तु सम्यक् ……………… प्राणभूतं तत्वम्।

(छ) धर्मशब्द: ………………. सर्वैरपि स्वीक्रियते।

(ज) कदाचित् एवमपि ……………. स्थिराणि एव। अथवा

कदाचित् एवमपि दृश्यते ……………………….. परिवर्तनं न भवति।

अथवा कदाचित् एवमपि ……………………….. परिवर्तनं दृश्यते।

3. निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए

(क) मनु ने धर्म के क्या लक्षण बताये हैं?

(ख) धर्म के दस लक्षणों का उल्लेख कीजिए।

(ग) नीति के प्रमुख ग्रन्थों के नाम लिखिए।

(घ) जीवन में नीति-पालन के महत्त्व पर प्रकाश डालिए।

(ङ) नीति और धर्म का अन्तर स्पष्ट कीजिए।

(च) नैतिकता का मुख्य उद्देश्य क्या है?

(छ) नीति किसे कहते हैं और उसका क्या महत्त्व है? .

(ज) किन्हीं पाँच भारतीय नीतिकारों के नाम लिखिए।

(झ) व्यक्ति के नैतिक मूल्यों पर प्रकाश डालिए।

(अ) ‘नैतिकमूल्यानि’ पाठ का सारांश लिखिए।

(ट) नैतिकता का प्राणभूत तत्त्व क्या है?

4. निम्नलिखित प्रश्नों का संस्कृत में उत्तर दीजिए

(क) मनुस्मृतौ धर्मस्य कति स्वरूपा: वर्णितः? (ख) नीतिः किम् अस्ति?

(ग) नैतिकताया: मुख्यमुद्देश्यं किम् अस्ति?

5. कदाचित्, संस्कृते, काव्यस्य, कुरुते शब्दों का प्रयोग संस्कृत वाक्यों में कीजिए।

6. निम्नलिखित शब्दों में सन्धि-विच्छेद कीजिए

नयनं, पुरातनकालादेव, तदाचरणेन, नैतिकताचरणेनैव।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top