up board class10 sanskrit solution chapter 6 adishankarachary षष्ठः पाठः आदिशंकराचार्यः

up board class10 sanskrit solution chapter 6 adishankarachary षष्ठः पाठः आदिशंकराचार्यः

षष्ठः पाठः आदिशंकराचार्यः

(आदिशंकराचार्य)

[हमारे देश में समय-समय पर ऐसे महापुरुषों का जन्म होता रहा है जिन्होंने धर्म की व्याख्या करके समाज को जीवन का सद्मार्ग बताया। आदि शंकराचार्य एक ऐसे ही महापुरुष थे। धर्म-प्रचार के लिए उन्होंने सारे देश का भ्रमण किया। उनके द्वारा देश के चारों कोनों में स्थापित चार मठ आज भी हिन्दू धर्म के चार ज्योति-स्तम्भ का कार्य करते हैं।]

धन्येयं भारतभूमियत्र साधुजनानां परित्राणाय दुष्कृताञ्च विनाशाय सृष्टिस्थितिलयकर्ता परमात्मा स्वयमेव कदाचित् रामः कदाचित् कृष्णश्च भूत्वा आविर्बभूव। त्रेतायुगे रामो धनुर्धृत्वा विपथगामिनां राक्षसां संहारं कृत्वा वर्णाश्रमव्यवस्थामरक्षत्। द्वापरे कृष्णो धर्मध्वंसिनः कुनृपतीन् उत्पाट्य धर्ममत्रायत। सैषा स्थिति: यदा कलौ समुत्पन्ना बभूव तदा नीललोहितः भगवान् शिवः शङ्कररूपेण पुनः प्रकटीबभूव। भगवतः शङ्करस्य जन्मकाले वैदिकधर्मस्य ह्रासः अवैदिकस्य प्राबल्यञ्चासीत्। अशोकादिनृपतीनां राजबलमाश्रित्य पण्डितम्मन्याः साम्प्रदायिकाः वेदमूलं धर्म तिरश्चक्रुः। लोकजीवनमन्धतमिस्रायां तस्यां मुहुर्मुहुर्मुह्यमानं क्षणमपि शर्म न लेभे। तस्यां विषमस्थितौ भगवान् शङ्करः प्रचण्डभास्कर इव उदियाय; देशव्यापिमोहमालिन्यमुज्झित्वा वैदिकधर्मस्य पुन: प्रतिष्ठां चकार। _ शङ्कर: केरलप्रदेशे मालावारप्रान्ते पूर्णाख्यायाः नद्यास्तटे स्थिते शलकग्रामे अष्टाशीत्यधिके सप्तशततमे ईस्वीयाब्दे नम्बूद्रकुले जन्म लेभे। तस्य पितुर्नाम शिवगुरुरासीत् मातुश्च सुभद्रा। शैशवादेव शङ्करः अलौकिकप्रतिभासम्पन्न आसीत्। अष्टवर्षदेशीयः सन्नपि परममेधावी असौ वेदवेदाङ्गेषु प्रावीण्यमवाप। दुर्दैवात् बाल्यकाले एव तस्य पिता श्रीमान् शिवगुरुः पञ्चत्वमवाप। पितृवात्सल्यविरहितः मात्रैव लालितश्चासौ प्राक्तनसंस्कारवशात् जगत: मायामयत्वमाकलय्य तत्त्वसन्धाने मनश्चकार। प्ररूढवैराग्यप्रभावात् स प्रव्रजितुमियेष, परञ्च परमस्नेहनिर्भरा तदेकतनयाम्बा नानुज्ञां ददौ। लोकरीतिपरः शङ्करः मातुरनुज्ञां विना प्रव्रज्यामङ्गीकर्तुं न शशाक।

_ एवं गच्छत्सु दिवसेषु एकदा शङ्करः पूर्णायां सरिति स्नातुं गतः। यावत् स सरितोऽन्तः प्रविष्टः तावदेव बलिना ग्राहेण गृहीतः। शङ्करः आसन्नं मृत्युमवेक्ष्य आर्तस्वरेण चुक्रोश। तस्य वत्सला जननी स्वपुत्रस्य स्वरं परिचीय भृशं विललाप। तस्याः तादृशीं विपन्नामवस्थामनुभूय स तस्यै न्यवेदयत्- अम्ब! यदि ते मम जीवितेऽनुरागः स्यात् तर्हि संन्यासाय मामनुजानीहि तेनैव मे ग्राहान्मुक्तिर्भविष्यति। अनन्यगतिः माता तथेत्युवाच। सद्यस्तद्ग्राहग्रहात् मुक्तः स संन्यासमालम्ब्य पुत्रविरहसन्तप्तां मातरं सान्त्वयित्वा तया बान्धवैश्चानुज्ञातः यतिवेषधरः स्वजन्मभूमिं त्यक्त्वा देशाटनितुं प्रवृत्तः। वनवीथिकासु परिभ्रमन् स क्वचित् गुहान्तर्वर्तिनं गौडपादशिष्यं गोविन्दपादान्तिकं जगाम। यतिवेषधारिणं तं गोविन्दपाद: पप्रच्छ- ‘कोऽसि त्वम् भो:?’ शङ्करः प्राह

मनोबुद्ध्यहङ्कारचित्तानि नाहं श्रोत्रं न जिह्वा न च प्राणनेत्रम्। न च व्योमभूमिर्न तेजो न वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्।।

एतामलौकिकीं वाचमुपश्रुत्य गोविन्दपादः तमसाधारणं जनं मत्वा तस्मै संन्यासदीक्षां ददौ। गुरोः गोविन्दपादादेव वेदान्ततत्त्वं विधिवदधीत्य स तत्वज्ञो बभूव। सृष्टिरहस्यमधिगम्य गुरोराज्ञया स वैदिकधर्मोद्धरणार्थं दिग्विजयाय प्रस्थितः। ग्रामाद् ग्रामं नगरानगरमटन् विद्वद्भिश्च सह शास्त्रचर्चा कुर्वन् स काशी प्राप्तः। काशीवासकाले स व्याससूत्राणामुपनिषदां श्रीमद्भगवद्गीतायाश्च भाष्याणि प्रणीतवान्।

अथ कदाचित् काश्यां प्रथितयशस: विद्वद्धौरेयस्य मण्डनमिश्रस्य दर्शनलाभाय स मनश्चकार। तद्गृहमन्वेष्टुकामः काञ्चिद् धीवरीमपृच्छत् क्वास्ति मण्डनमिश्रस्य धामेति। सा धीवरी प्रत्यवदत्

स्वतः प्रमाणं परतः प्रमाणं

कीराङ्गना यत्र गिरो गिरन्ति। द्वारस्य नीडान्तरसन्निबद्धाः

अवेहि तद्धाम हि मण्डनस्य।। इति धीवरीवचनं श्रुत्वा शङ्करः मण्डनमिश्रस्य भवनं गतः। तयोर्मध्ये तत्र शास्त्रार्थोऽभवत्। निर्णायकपदे मण्डनमिश्रस्य सुमेधासम्पन्ना भार्या शारदा प्रतिष्ठापितासीत्। शास्त्रार्थे स्वस्वामिनः पराजयमसहमाना सा स्वयं तेन सह शास्त्रार्थं कर्तं समुद्यताभवत्। सा शङ्करं कामशास्त्रीयान् प्रश्नान् पप्रच्छ। तान् दुरुत्तरान् प्रश्नान् श्रुत्वा स तूष्णीं बभूव। कियत्कालानन्तरं स परकायप्रवेशविद्यया कामशास्त्रज्ञो बभूव पुनश्च मण्डनपत्नी शास्त्रार्थे पराजितवान्। जनश्रुतिरस्ति यत् स एव मण्डनमिश्रः आचार्यशङ्करस्य शिष्यत्वं स्वीचकार, सुरेश्वर इति नाम्ना प्रसिद्धिं च लेभे। दिग्विजययात्राप्रसङ्गेनैव आचार्यप्रवरः प्रयागं प्राप्तः। तत्र वैदिकधर्मोद्धरणाय सततं यतमानं कुमारिलभट्ट ददर्श। एकत: कुमारिलभट्टः वैदिकधर्मस्य कर्मकाण्डपक्षमाश्रित्य साम्प्रदायिकान् पराजितवान्, अपरतश्च श्रीमच्छङ्करः कर्मकाण्डस्य चित्तशुद्धिमात्रपर्यवसायिमाहात्म्यं स्वीकृत्यापि मोक्षे तस्य वैयर्थ्य प्रतिपादयामास। एवं कुमारिलसम्मतं मतमपि खण्डयित्वा स अज्ञाननिवृत्तये ज्ञानस्य महिमानं ख्यापयामास। तद् ज्ञानमेव मोक्षदायकं भवति इति ज्ञानकाण्डमेव वेदस्य निष्कृष्टार्थं इति शङ्कर: अमन्यत। एवं शङ्करः आसेतो: कश्मीरपर्यन्तं समग्रदेशे परिबभ्राम, स्वकीययालौकिक्या बुद्ध्या च न केवलं विरोधिमतं समूलमुत्पाटयामास वरञ्च वैदिकधर्मानुयायिनां मध्ये तत्त्वस्वरूपमुद्दिश्य यद्वैमत्यमासीत् तस्यापि समन्वयः तेन समुपस्थापितः। अल्पीयस्येव वयसि महापुरुषोऽसौ चतुर्दिक्षु स्वकीर्तिकौमुदी प्रसार्य द्वात्रिंशत्परमायुरन्ते केदारखण्डे स्वपार्थिवशरीरं त्यक्त्वा पुन: कैलासवासी बभूव। _ शङ्कराविर्भावात् प्रागपि तत्रासन् व्यासवाल्मीकिप्रभृतयो बहवो मनीषिणः ये स्वप्रज्ञावैशारद्येन वैदिकधर्माभ्युदयाय प्रयतमाना आसन्। तेषु महर्षिव्यासप्रणीतानि ब्रह्मसूत्राण्यधिकृत्य श्रीमच्छङ्करेण शारीरकाख्यं भाष्यं प्रणीतम्। एवं व्यासमतमेवावलम्ब्य भाष्यकृता तेन वैदिकधर्मः पुनरुज्जीवितः। तस्य दार्शनिकमतमद्वैतमतमिति लोके प्रसिद्धमस्ति। स स्वयं प्रतिजानीते यत् वेदोपनिषत्सु सन्निहितं तत्वरूपमेव स निरूपयति नास्ति तत्र किञ्चित् तद्बुद्धिसमुद्भवम्। तन्मतेन जगदतीतं सत्यं ज्ञानमनन्तं यत्तदेव ब्रह्म इति बोद्धव्यम्। ब्रह्माधिष्ठाय मायाविकारः एव एष संसारः अस्ति। संसारसरणौ सुख-दु:खप्रवाहे उत्पीड्यमानो जीवो ब्रह्मैवास्ति। विभुर्भूत्वापि मायाजन्याज्ञानप्रभावात् सः आत्मनः कार्पण्यमनुभवति सन्ततं विषीदति च। एवं जीवब्रह्मैक्यं प्रतिपाद्य स सकल-जीवसाम्यं स्थापयामास। “एकं सद् विप्रा बहुधा वदन्ति, नेह नानास्ति किञ्चन् यो वै भूमा तत्सुखम्” इति श्रुती: अनुसृत्य शङ्करः वेदान्ततत्त्वस्वरूपं निर्धारयामास।

प्रतीयमानानेकरूपाया: सृष्टेः अधिष्ठानं ब्रह्म अद्वैतरूपमस्ति। एतदस्ति विश्वबन्धुत्वभावनाया: बीजम्।

अस्याः भावनाया: पल्लवनेन न केवलं एकः राष्ट्रवृक्षः संवर्धते अपितु जातिक्षेत्रादिमूला उच्चावचभावरूपा संकीर्णता समूलोच्छिन्ना भवति। एतस्याः राष्ट्रियभावनाया: पुष्ट्यर्थं स स्वदेशस्य चतसृषु दिक्षु चतुर्णा वेदान्तपीठानां स्थापनाञ्चकार। मैसूरप्रदेशे शृङ्गेरीपीठं, पुर्यां गोवर्धनपीठं, बदरिकाश्रमे ज्योतिष्पीठं, द्वारिकायाञ्च शारदापीठं साम्प्रतमपि राष्ट्रसमुन्नत्य, लोकहितसाधनाय चाद्वैतमतस्य प्रचारे अहर्निशं प्रयतमानानि सन्ति।

निष्कामकर्मयोगी शङ्करः यद्यपि अल्पायुरासीत् किन्तु तस्य कार्याणि, अत्युत्कृष्टभाष्यग्रन्थाः, अनेके मौलिकग्रन्थाः अद्वैतसिद्धान्तश्चैनम् अनुक्षणं स्मारयन्ति। धन्यः खल्वसौ महनीयकीर्तिः जगद्गुरुः भगवान् शङ्करः।

काठिन्य निवारण शब्दार्थ—

साधुजनानां = साधुजनों की। परित्राणाय = रक्षा के लिए। आविर्बभूव = प्रकट हुआ। विपथगामिनां = गलत रास्ते पर चलने वालों का। धर्मध्वंसिनः = धर्म का नाश करने वाले। उत्पाट्य = नष्ट करके। तमिस्रायां = रात में। शर्म = सुख, कल्याण। मुह्यमानम् = मोहित होते हुए। उज्झित्वा = छोड़कर। सन्नपि = होते हुए। प्राक्तन = पूर्व जन्म के। प्ररूढ = उत्पन्न। प्रव्रजितुं = संन्यास लेने के लिए। इयेष = इच्छा की। चुक्रोश = चिल्लाये। ग्राहेण = मगरमच्छ ने। वत्सला = प्रेममयी। परिचीय = पहचान कर। अनुजानीहि = अनुमति दे दो। अनन्यगतिः = जिसकी कोई दूसरी गति न हो। सद्यः = तत्काल। वाचम् = वाणी को। प्रणीतवान् = रचना की। प्रथितयशसः = प्रसिद्ध यशवाले। विद्वद्धौरेयस्य = विद्वानों में श्रेष्ठ, महाविद्वान्। गिरन्ति = बोलते हैं। अवेहि = जानो। कीराङ्गना = तोतों की पत्नियाँ (मैनाएँ)। सुमेधासम्पन्ना = बुद्धिमती। परिबभ्राम् = भ्रमण किया। प्रागपि = पहले भी। सरणौ = मार्ग में। कार्पण्यम् = दीनता। विषीदति = दु:खी होता है। विप्रा = विद्वान्। नेह = यहाँ पर नहीं। भूमा = अधिकता। यतमानः = प्रयत्न करते हुए। निवृत्तये = हटाने के लिए। ख्यापयामास = बतायी। आसेतोः = सेतुबन्ध से लेकर। वैमत्यम् = मतभेद। वयसि = उम्र में। बोद्धव्यम् = समझना चाहिए। विभुः = व्यापक। श्रुतीः = वेद वाक्यों को। अहर्निशं = दिन-रात। अनुक्षणम् = प्रत्येक क्षण।

अभ्यास प्रश्न—

1—‘आदिशंकराचार्य:’ पाठ का सारांश हिन्दी में लिखिए। (2018HP, HT, 19AP, AS, AT, 20MO, MQ)

2. निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए

(क) धन्येयं …………….. धर्ममत्रायत।

(2020MS)

(ख) शङ्करः केरलप्रदेशे

..पञ्चत्वमवाप।

(ग) स्वत: प्रमाणं ………………… पराजितवान।

(घ) दिग्विजययात्रा ………………… प्रतिपादयामास।

(ङ) निष्कामकर्मयोगी………… शङ्करः।

(च) एवं गच्छत्सु ……………………भविष्यति प्रवृतः।

(छ) अम्ब! यदि ते मम ………..गोविन्दपादान्तिकं जगाम।

(ज) एतामलौकिकी ……………….दिग्विजयाय प्रस्थितः।

अथवा

एतामलौकिकी ………………….. स काशी प्राप्तः।

1 thought on “up board class10 sanskrit solution chapter 6 adishankarachary षष्ठः पाठः आदिशंकराचार्यः”

  1. Pingback: Up Board Class10 Sanskrit Solution Chapter 7 Sanskrit Bhashaya Gauravam सप्तमः पाठः संस्कृतभाषायाः गौरवम् – UP Board INFO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top