up board class10 sanskrit solution chapter 7 sanskrit bhashaya gauravam सप्तमः पाठः संस्कृतभाषायाः गौरवम्

up board class10 sanskrit solution chapter 7 sanskrit bhashaya gauravam सप्तमः पाठः संस्कृतभाषायाः गौरवम्

सप्तमः पाठः    संस्कृतभाषायाः गौरवम्

(संस्कृत भाषा का महत्त्व)
[संस्कृत विश्व की प्राचीनतम् भाषा है । यह भारत में बोली जानेवाली सभी आर्य भाषाओं की जननी है । इसका साहित्य विश्व का सर्वाधिक सम्पन्न साहित्य है । यह भारतीय संस्कृति की परिचायिका भी है । यह भाषा प्राचीनकाल में जनसाधारण की भाषा थी । रामायण में जब हनुमान सीताजी को श्रीराम की अंगठी देना चाहते हैं तब इस भय से कि प्राकृत भाषा बोलने पर सीताजी उन्हें राक्षस न समझ लें, संस्कृत भाषा ही बोलने का निश्चय करते हैं । यह भाषा हमारे आदर्श मूल्यों, मान्यताओं, परम्पराओं आदि का स्रोत है । विदेशों में भी इसके अध्ययन के प्रति रुचि बढ़ रही है । भारतीय संस्कृति और परम्पराओं के ज्ञान और परीक्षण के लिए संस्कृत भाषा और साहित्य का ज्ञान आवश्यक है । ]

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा विपलज्ञानविज्ञानसम्पन्ना सरला समधरा हृद्या चेति सर्वैरपि प्राच्यपाश्चात्याविद्वद्भिरेकस्वरेणोररीक्रियते । भारतीयविद्याविशारदैस्तु ‘संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः’ इति संस्कृतभाषा हि गीर्वाणवाणीति नाम्ना सश्रद्धं समाम्नाता ।

ग्रीकलैटिनादिप्राचीनासु भाषासु संस्कृतभाषैव प्राचीनतमा प्रचुरसाहित्यसम्पन्ना चेति । श्रीसरविलियमजोन्सनाम्ना पाश्चात्यसमीक्षकेणापि शतद्वयवर्षेभ्यः प्रागेव समुद्घोषितमिति सर्वत्र विश्रुतम् ।

संस्कृतभाषा पुराकाले सर्वसाधारणजनानां वाग्व्यवहारभाषा चासीत् । तत्रेदं श्रूयते यत् पुरा कोऽपि नरः काष्ठभारं स्वशिरसि निधाय काष्ठं विक्रेतुमापणं गच्छति स्म । मार्गे नृपः तेनामिलदपृच्छच्च, भो! भारं बाधति ? काष्ठभारवाहको नृपं तत्प्रश्नोत्तरस्य प्रसङ्गेऽवदत्, भारं न बाधते राजन्! यथा बाधति बाधते । अनेनेदं सुतरामायाति यत्प्राचीनकाले भारतवर्षे संस्कृतभाषा साधारणजनानां भाषा आसीदिति । रामायणे यदा भगवतो रामस्य प्रियसेवको हनूमान् कनकमयीं मुद्रामादाय सीतायै दातुमिच्छति तदा विचारयति स्म |

वाचं चोदाहरिष्यामि द्विजातिरिव संस्कृताम् ।

रावणं मन्यमाना मां सीता भीता भविष्यति । । एतेनापि संस्कृतस्य लोकव्यवहारप्रयोज्यता अवगम्यते ।

अस्याः भाषायाः साहित्यं सर्वथा सुविशालं विद्यते । तत्र संस्कृतसाहित्यं गद्य-पद्य-चम्पूप्रकारैः त्रिधा विभज्यते । संस्कृतसाहित्यं नितान्तमुदात्तभावबोधसामर्थ्यसम्पन्नमसाधारणं श्रुतिमधुरञ्चेति निर्विवादम् । वस्तुतः साहित्यं खलु निखिलस्यापि समाजस्य प्रत्यक्षं प्रतिबिम्बं प्रस्तौति । अस्मिन् साहित्ये विश्वप्राचीनतमा ऋग्यजुः सामाथर्वनामधेयाश्चत्वारो वेदाः, शिक्षा-कल्पो, व्याकरणं, निरुक्तं, छन्दो ज्योतिषमित्येतानि वेदानां षडङ्गानि, न्याय-वैशेषिक-सांख्य-योग-मीमांसा-वेदान्तेति आस्तिकदर्शनशास्त्राणि; चार्वाक्-जैन-बौद्धति नास्तिकदर्शनशास्त्राणि; उपनिषदः, स्मृतयः, सूत्राणि, धर्मशास्त्राणि, पुराणानि, रामायण, महाभारतमित्यादयः ग्रन्थाः संस्कृतसाहित्यस्य ज्ञानरत्नप्राचर्यं समदघोषयन्ति । वाल्मीकि-व्यास-भवभूति-दण्डि-सुबन्ध-बाण-कालिदास-अश्वघोष-भारविजयदेव-माघ-श्रीहर्षप्रभृतयः कवयः लेखकाश्चास्याः गौरवं वर्धयन्ति । अहो! संस्कृतभाषायाः भण्डारस्य नि:सीमता, यस्याः शब्दपारायणस्य विषये महाभाष्ये लिखितं वर्तते यद् दिव्यं वर्षसहस्त्रं बृहस्पति: इन्द्राय शब्दपारायणमिति कोष-प्रक्रिया आसीत् । संस्कृतव्याकरणेन एवंविधा शैली प्रकटिता पाणिनिना, यथा शब्दकोशा: अल्पप्रयोजना एव जाता । तस्य व्याकरणं विश्वप्रसिद्धम् एव न अपितु अद्वितीयमपि मन्यते ।

अन्यासु भाषासु वाक्ययोजने प्रथमं कर्तुः प्रयोगः पुनः अन्येषां कारकाणां विन्यासः, पश्चात् क्रियायाः उक्तिः । कस्याञ्चित् भाषायां क्रियायाः विशेषणानां कारकाणाञ्च पश्चात् प्रयोगः, किन्तु संस्कृतव्याकरणे नास्ति
एतादृशाः केऽपि नियमाः । यथा-आसीत् पुरा दशरथो नाम राजा अयोध्यायाम् । अस्यैव वाक्यस्य विन्यास: एवमपि भवति-पुरा अयोध्यायां दशरथो नाम राजा आसीत्, अयोध्यायां दशरथो नाम राजा पुरा आसीत्, इति वा । कस्यापि पदस्य कुत्रापि स्थानं भवेत् न कापि क्षति: ।

सन्धीनां विधानेन वाक्यस्य विन्यासे सौकस् जायते । एकस्यां पङ्क्तौ समासेन बहनां शब्दानां योजना भवितं शक्या यथा-कविकुलगुरुकालिदासः । एकस्याः क्रियायाः विभिन्नार्थद्योतनाय दशलकारा वर्णिताः । लकाराणां प्रयोगज्ञानेन इत्थं ज्ञायते इयं घटना कियत्कालिकी, किंकालिकी, यथा-हरिश्चन्द्रो राजा बभूव । रामो लक्ष्मणेन सीतया च सह वनं जगाम । अत्र लिटप्रयोगेण ज्ञायते इयं घटना पुरा कालिकी सहस्त्रवर्षात्मिका लक्षात्मिका वा स्यात् । गन्तास्मि वाराणसी कथनेनैव ज्ञायते श्व: गन्तास्मि सामान्यभविष्यत्काले लूट: प्रयोगो भवति, एवं भूतकालेऽपि अद्यतनस्य अनद्यतनस्य च भूतकालस्य कृते पृथक्-पृथक् लकारस्य प्रयोगोऽस्ति । संस्कृते अर्थान् गणांश्च क्रोडीकृत्य शब्दानां निष्पत्तिः, यथा- पुत्रः, कस्मात् पत्र: ? पम् नरकात त्रायतेऽसौ पत्र:, आत्मजः कस्मादात्मजः ? आत्मनो जायतेऽसौ आत्मजः, सूर्यः कस्मात् सूर्यः ? सूवति कर्मणि लोकं प्रेरयति अत: सूर्यः । सूर्यः यदा नभोमण्डलमारोहति प्रेरयति लोकं, कस्मात् शेषे ? उत्तिष्ठ, वाति वातः, स्वास्थ्यप्रदायकं प्राणवायु गृहाण, नैत्यिकानि कर्माणि कुरु, इत्थं प्रेरयन् आकाशमागच्छति, अत: सूर्यः इति । खग: कस्मात ? खे (आकाशे) गच्छति अस्मात् खगः । एवमर्थज्ञानाय व्यवस्थान्यासु भाषासु नास्ति । अव्युत्पन्नाः शब्दाः तेषामपि निरुक्तिः अर्थानुसन्धानिकी भवत्येव इति नैरुक्ताः । सर्वं नाम च धातजमाह इति शाकटायन:, उणादिसूत्रेषु एव प्रक्रिया वर्तते । इयं वाणी गुणतोऽनणीयसी, अर्थतो गरीयसी, एकस्य श्लोकस्य षड्षडाः प्रदर्शिता: नैषध, वाङ्मयदृष्ट्या महीयसी, भावतो भूयसी, अलङ्कारतो वरीयसी, सुधातोऽपि स्वादीयसी, सुधाशनानामपि प्रेयसी, अत एव जातकलेखका: बौद्धाः सर्वात्मना पालिं प्रयोक्तुं कृतप्रतिज्ञा अपि संस्कृतेऽपि स्वीयान् ग्रन्थान् व्यरीरचन् । एवं जैनाः कवयः दार्शनिका अपि संस्कृतभाषामपि स्वीकृतवन्तः । यद्यपि ते विचारेषु विपक्षधरा एव आसन् ।

अस्या: काव्यभाषायाः शब्दगतमर्थगतञ्च ध्वनिमाधुर्यं श्रावं श्रावं सुराङ्गनापदनूपुरध्वनिमाधुर्यं धिक्कुर्वन्ति वाङ्मयाध्वनीना:, काव्यक्षेत्रे- शब्दगतानर्थगतांश्च विस्फुरतोऽलङ्कारान् विलोक्य पुनर्नावलोकयन्ति मणिमयानलङ्कारान् ।

भारतीयधर्म इव संस्कृतभाषापि भारतीयानां वरिष्ठ: शेबधि: । इयमेव भाषा शाखाप्रशाखारूपेण प्रान्तीयासु तासु-तासु भाषासु तिरोहिता वर्तते । अद्य केचन धर्मान्धा: राजनीतिभावनाभाविता: भारतस्य खण्डनमभिलषन्ति । कारणं तेषां संस्कृतभाषाया: अज्ञानम् । “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी”, “अयं निज: परोवेति गणना लघुचेतसाम्’, “उदारचरितानां तु वसुधैव कुटुम्बकम्”, “शुनि चैव श्वपाके च पण्डिताः समदर्शिनः”, “मा हिंस्यात्सर्वाभूतानि’, “मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’ इमे उपदेशा: यदि भारतीयानां समक्षं समीक्ष्यन्ताम् तदा सकलं भारतं स्वयमेव एकसूत्रे अखण्डतासूत्रे च निबध्येत । “अस्त्यत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः”, “मानसं यान्ति हंसा: न पुरुषा एव ?” इति सडिण्डिमं घोषयति इयं भाषा । ।

संस्कृतं विना एकताया अखण्डतायाः पाठः निरर्थक एव प्रतीयते । नेहरूमहाभागेनापि स्वकीयायाम् आत्मकथायां लिखितम् यत् संस्कृतभाषा भारतस्य निधिस्तस्याः सुरक्षाया उत्तरदायित्वं स्वतन्त्रे भारते आपतितम् ।

अस्माकं पूर्वजानां विचारा: अनुसन्धानानि चास्यामेव भाषायां सन्ति । स्वसभ्यतायाः धर्मस्य राष्ट्रियेतिहासस्य, संस्कृतेश्च सम्यग्बोधाय संस्कृतस्य ज्ञानं परमावश्यकमस्ति । केनापि कविना मधुरमुक्तम्

भवति भारतसंस्कृतिरक्षणं प्रतिदिनं हि यया सुरभाषया ।

सकलवाग्जननी भुवि सा श्रुता बुधजनैः सततं हि समादृता । । तथाभूतायाः अस्याः भाषायाः पुनरभ्युदयाय भारतीयैः पुनरपि सततं यतनीयम् ।

काठिन्य निवारण  शब्दार्थ 

सर्वासु भाषासु = सभी भाषाओं में । विपुल = अधिक । हृद्या = हृदय को अच्छा लगने वाली । गीर्वाणवाणी = देववाणी । पुराकाले = प्राचीन समय में । श्रूयते = सुना जाता है । आपणं = बाजार में । काष्ठभारं = लकड़ी के भार को । निधाय = रखकर । बाधते = पीड़ा पहुँचाता है । कनकमयी = सोने की । उदाहरिष्यामि = बोलूंगा । द्विजाति = ब्राह्मण । त्रिधा = तीन प्रकार से । प्रस्तौति = प्रस्तुत करता है । प्राचुर्यम् = अधिकता को । श्रुति = सुनने में । कोषप्रक्रिया = शब्द निर्माण । अन्येषां = अन्य (दूसरी) में । विन्यास = क्रम, प्रयोग । एतादृशाः = ऐसे । क्षतिः = हानि । विधानेन = करने से । सौकर्य = सरलता । द्योतनाय = सूचित करने के लिए । किंकालिकी = किस समय की । क्रोडीनृत्य = गोद में लेकर । वाति = बहती है । लक्षात्मिका = लाख वर्ष की । अनद्यतन = जो आज का न हो । अनणीयसी = स्थूल । गरीयसी = भारी । महीयसी = महत्त्वपूर्ण । सुधाशनानाम् = देवताओं । व्यरीरचन् = बार-बार रचना की । विपक्षधराः = विरोधी । भयसी = सब से बड़ी । विस्फुरतः =बिखेरना । उररीक्रियते = स्वीकार किया जाता है । अन्वाख्याता = अनुवाद की गयी । मुद्राम् = अँगूठी । क्षति = हानि । प्रेरयन् = प्रेरित करते हैं । सुराङ्गना = अप्सराएँ । तिरोहिता = छिपी हुई । शुनि = कुत्ते में । श्वपाके = चाण्डाल में । निबद्धम् = बाँधने के लिए । अभ्युदयाय = उन्नति के लिए । यतनीयम् = प्रयत्न करना चाहिए ।

अभ्यास प्रश्न

1 – ‘संस्कृतभाषायाः गौरवम्’ पाठ का सारांश हिन्दी में लिखिए ।

  1. निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए
    (क) संस्कृतभाषा ……. समाम्नाता ।
    (ख) संस्कृतभाषापुराकाले ……………… आसीदिति ।
    (ग) संस्कृत भाषा …….. विचारयति स्म ।
    (घ) अन्यासु भाषासु ………………… कापि क्षतिः ।
    (ङ) अस्याः काव्यभाषायाः …………. अनलङ्कारान् ।
    (च) भारतीय धर्म इव ………………. इयं भाषा ।
    अथवा
    भारतीय धर्म इव . निवध्येत् ।
  2. (छ) संस्कृतं विना ………. भाषायां सन्ति यतनीयम् ।
    अथवा
    संस्कृत विना ……………….. आपतितम् ।
    (ज) अस्या: भाषायाः ……………… समुद्घोषयन्ति ।
    (झ) सन्धीनां विधानेन …………….. श्व: गन्तास्मि ।
  3. निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए up board class10 sanskrit solution chapter 6 adishankarachary षष्ठः पाठः आदिशंकराचार्यः

(क) संस्कृत को देववाणी क्यों कहा गया है ?
(ख) संस्कृत भाषा का महत्त्व लिखिए ।
(ग) सुप्रसिद्ध संस्कृत कवियों के नाम लिखिए ।
(घ) वेदांगों के नाम लिखिए ।
(ङ) भारतीय संस्कृत को प्रतिबिम्बित करनेवाली भाषा कौन-सी है ?
(च) चारों वेदों के नाम लिखिए ।
(छ) संस्कृत भाषा की प्राचीनता के विषय में किसी विदेशी विद्वान का मत लिखिए ।
(ज) रामायण के अनुसार हनुमान ने सीताजी से किस भाषा में बातचीत की थी ? उदाहरणपूर्वक लिखिए ।
(झ) ‘संस्कृत भाषायाः गौरवम्’ पाठ का सारांश लिखिए ।
4– निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए
(क) विश्वस्य सर्वासु भाषासु प्राचीनतमा भाषा का अस्ति ?
(ख) पुराकाले सर्वसाधारण जनानां वाग्व्यवहार भाषा किम् आसीत् ?
(ग) कस्याः भाषायाः साहित्यम् सर्वथा सुविशालं विद्यते ?
5– निम्नलिखित शब्दों का प्रयोग संस्कृत-वाक्यों में कीजिए
भाषासु, पुराकाले, आसीत्, इयं, सह, खगाः, सन्ति ।
6- निम्नलिखित शब्दों में सन्धि-विच्छेद कीजिए

तत्प्रश्नोत्तरम्, नास्ति, अस्यैव, नैव, सर्वात्मना ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top