up board class10 sanskrit solution chapter 8 madan mohan malviy अष्टमः पाठः मदनमोहन मालवीयः

up board class10 sanskrit solution chapter 8 madan mohan malviy अष्टमः पाठः मदनमोहन मालवीयः

अष्टमः पाठः मदनमोहन मालवीयः

(मदनमोहन मालवीय)
[मदनमोहन मालवीय की गणना वर्तमान भारत के महापुरुषों में की जाती है । गाँधीजी उन्हें महामना मालवीय कहा करते थे । मालवीय जी जीवन-पर्यन्त देश की स्वतन्त्रता के लिए संघर्षरत् रहे । काशी हिन्दू विश्वविद्यालय उनका कीर्ति-स्तम्भ है । ]

गौरं कान्तिमयं वपुः, धवलं परिधानं, गले लम्बितमुत्तरीयं, शिरसि धवलोष्णीषम्, ललाटे कुङ्कुमगर्भितधवलचन्दनतिलकं, धवले चोपानहौ एतत्सर्वं मदनमोहन मालवीयस्य भारतीयचारित्र्यं हृदयस्य च विमलत्वं निदर्शयन्ति स्म । वस्तुतस्तु, भारतीय संस्कृतिस्तस्मिन् रूपायिता जाता ।

पण्डितमदनमोहनमालवीयस्य जन्म एकषष्टयुत्तराष्टादशशततमे ख्रिष्टाब्दे दिसम्बरमासस्य पञ्चविंशति दिनाङ्के (2512-1861) तीर्थराज प्रयागे एकस्मिन् ब्राह्मणकुलेऽभवत् । अस्य जनकः पण्डितव्रजनाथचतुर्वेदः संस्कृतभाषायाः विश्रुतो विद्वानासीत् । निर्धनोऽपि धर्मकर्मणि सततरतोऽयं विद्वान् समाजे समादृत आसीत् । एतस्य पूर्वजा मालवदेशादागत्योत्तरभारते न्यवसन्नतस्ते ‘मालवीय’ इति पदेन सम्बोध्या अभवन् । मदनमोहनमालवीयस्य प्रारम्भिकी शिक्षा प्रयागे एवैकस्यां संस्कृतपाठशालायां जाता । संस्कृताध्ययनेन बाल्य एव तस्य मनसि भारतीयादर्शचरितानां कृते भारतीयसंस्कृतेश्च कृते बह्वादरः समजायत । स्मृतिपुराणमहाभारत-भागवतादिभारतीयग्रन्थानामनुशीलनेन भारतदेशंप्रति तस्य हृदि श्रद्धा समुत्पन्ना । दु:खतप्तानां प्राणिनामर्तिनाशनं स कामयते स्म । अत: बाल्यकाले एव तस्य हदि देशभक्तेः मानवसेवाया: मानवजीवनस्याभ्युदयस्य बीजान्युप्तानि जातानि यानि काले विकसितभूतानि फलितानि । कालान्तरे स: प्रयागे प्रथमसंस्थापिते राजकीय हाईस्कूल नाम्नि विद्यालये पठन् ‘इन्ट्रेन्स’ परीक्षामुदतरत् । तत: म्योर सेन्ट्रल कालेजेऽधीयान: बी0 ए0 परीक्षायाः पारं गतः । अग्रे पठितुमिच्छन्तमप्यर्थकार्यं तमबाधत । कर्त्तव्यसंघाते किं पूर्वं करणीयमिति विशिष्टकर्त्तव्यनिर्धारणमेव विवेकशालिनां वैशिष्ट्यम् । अत: जीवननिर्वाहार्थं तेनाध्यापनवृत्तिः स्वीकृता । तदैव कलिकातानगरे अखिलभारतीयकांग्रेसदलस्य अधिवेशनमभूत् । मालवीयमहोदयस्तत्र गतः । व्यवस्थापिकासभावीषयमवलम्ब्यातीव गम्भीरं विचारपूर्ण भाषणं चाकरोत् । पञ्चविंशतिवर्षीयस्य यून: मालवीयस्य मनोहारिण्या शैल्या विशदविचारान् संसृत्य नेतार इतरे चोपस्थिता जना: देशसेवकाश्च चकिता अभवन् । एकेनैव भाषाणेनासौ राष्ट्रञ्चस्थानां नेतृणां पङ्क्तौ स्वमुपावेशयत् । तस्याध्ययनस्य तस्य सदाशयतादिगुणानां तस्य च विनयस्येदं प्रतिफलमासीत् । तत्रैव प्रतापगढस्थकालाकाँकरस्य देशभक्तो राजारामपालसिंहस्तस्य वैशिष्ट्येनाकृष्ट: ‘हिन्दुस्तान’ दैनिकपत्रस्य सम्पादनायानुरोधं कृतवान् । हिन्दुस्तान’ पत्रस्य सम्पादनं कुर्वता मालवीयमहोदयेन तदानीम् आङ्गलशासकैराक्रान्ते देशे चाङ्गलभाषायाऽऽक्रान्तायां शिक्षायां राष्ट्रियभावस्य हिन्दी-भाषायाश्च दृढतया प्रचारः कृतः । हिन्दुस्तानपत्रमतिरिच्येतरेषामनेकपत्राणामपि सम्पादनं तेन कृतम् परं सर्वत्र राष्ट्रसेवा हिन्दी भाषासेवा च तस्य मुख्यलक्ष्ये आस्ताम् । न्यायालयेषु हिन्दीभाषायाः प्रयोगनिर्णये मालवीयमहोदयस्य विशिष्टमवदानं विद्यते ।

पत्राणां सम्पादनावसरे प्रकटिता अस्य विचारा: सुस्पष्टा, गम्भीरा, युक्तियुक्ताश्चाभवन् । अत: विरोधिनोऽपि तं प्रशंसन्ति स्म । आङ्ग्लशासनस्यालोचनां कुर्वन् मालवीयमहोदयो न भयमनभृतवान् नाऽपि संकोचं कृतवान् । न दैन्यं, न पलायनमिति तस्य जीवनसूत्रमासीत् । पत्रसम्पादनकर्मणि तस्य मनो नारमत । गुरुजनानां परामर्शमनुसृत्यासौ एल-एल0बी0 कक्षायां पठितुमारब्धवान् स-सम्मानं च तां परीक्षामुदतरत् । एल-एल0 बी0 पदव्या विभूषितः सन्प्रयागस्थोच्चन्यायालये अधिवक्तृकर्म कर्तुं प्रारभत । स्वल्पैरेवाहोभि: न्यायालये न्यायक्षेत्रे च परां ख्यातिमवाप । मृषावादानसौ न स्वीकरोति स्म, अत: सत्यं प्रति तस्य दृढो विश्वास: अधिवक्तृकर्मनिरतानां कृतेऽद्यापि आदर्शभूतः संतिष्ठते ।
मदनमोहनमालवीयोऽध्यापकोऽभवत्, पत्रकारकर्म चानुष्ठितवान् परं स: सन्तुष्टिं शान्तिं च नालभत । देशस्य पारतन्त्र्येण तस्य मनः भृशमयत । कथं वा देश: पारतन्त्र्यशृङ्खलामच्छिद्य स्वतन्त्रो भविष्यतीति चिन्ताचिन्तितः सन् मालवीयः अखिलभारतीयकांग्रेसदलमाध्यमेन पृथग्रूपेण मातृभूमेः मुक्तिकर्मणि संलग्नो जातः । स्वकार्येण स्वविचारेण चासौ कांग्रेसदलस्य त्रिवारं सभापतिपदमलङ्कृतवान् । हिमगिरिमिव तस्योत्तुङ्गं मनो दृष्ट्वा महात्मा गान्धी तं ‘महामना’ इत्यवोचत् । एकत्रिंशदुत्तरैकोनविंशतिशततमे वर्षे (1931) आङ्ग्लशासकैः सह सन्धिवार्ता कर्तुं महात्मना गान्धिना सह अयमपि इंग्लैण्ड-देशं जगाम । आङ्ग्लभाषायां व्यक्तान् तस्य विचारान् संश्रुत्य इंगलैण्डवासिनः अपि मुग्धा अभवन् । _ राष्ट्रसेवाकर्मणि निरतोऽपि महामना मालवीयोऽन्येष्वपि रचनात्मककर्मसु प्रवृत्त आसीत् । प्रयागे जनान् धनं याचित्वा मैक्डॉनलहिन्दूछात्रावासस्य निर्माणमसौ अकारयत् । तस्यैवोद्योगेन प्रयागस्य प्रख्यातस्य मिण्टोपार्क इत्यस्यापि निर्माणं जातम् । समग्रे च देशे शिक्षाया: ह्रासदशामवलोक्याशि:वास्माकं पारतन्त्र्यस्य हेतुरिति सोऽमन्यत । अतो देशस्योन्नत्य क्रियमाणैरन्यैरुद्योगैः सह शिक्षायाः विकासायापि प्रयत्नो विधेय इति तस्य दृढा मतिरासीत् । सततं चिन्तयन् स: काशीहिन्दूविश्वविद्यालयस्य संस्थापनायाः संकल्पं हृदि निदधौ । षोडशोत्तरैकोनविंशतिशततमे वर्षे (1916) वसन्तपञ्चमीपर्वदिने काश्यां पुण्यसलिलाया: गङ्गायास्तटे लोकोत्तरमिदं कार्यं संवृत्तम् । भिक्षावृत्त्या जनान्, श्रेष्ठिनो, राज्ञो, महाराजान्, वैदेशिकशासनमपि धनं याचित्वा विश्वविद्यालयस्य संस्थापनं तस्यापूर्वमनोबलस्य संकल्पदृढतायाश्च द्योतकं वर्तते । पञ्चक्रोशपरिमिते क्षेत्रेऽभिव्याप्ते विश्वविद्यालयपरिसरे निर्मितानि विविधविद्या-महाविद्यालयभवनानि दृष्ट्वा कस्य वा भारतीयस्य मनो नाऽह्लादते को वा वैदेशिको विस्मितो न जायते । इयति विस्तृत भूखण्डे कस्यचिदपि विश्वविद्यालयस्य जगति स्थिति: न श्रूयते । अस्मिन् विश्वविद्यालयेऽध्ययनरताश्छात्रा: वैदेशिकभाषा-विज्ञान-कला-कौशलप्रभृतिविषयेषु निष्णाता: सन्त: भारतीयां संस्कृति धर्मदर्शनमितिहासं च न विस्मरेयुरिति तस्य प्रयासोऽभूत् । अतोऽध्यापनावसरे भारतीयाचारान् स छात्रानशिक्षयत् । विभिन्नपर्वावसरेषु च भारतस्य प्राणभूतभागवतमहापुराणस्य कथां सुललितभाषया मधुरेण च स्वरेण छात्रान् प्राध्यापकांश्चाश्रावयत् । विविधविषयज्ञानसम्पादनसममेव छात्रा: भारतीयाचारविचारेण च परिचितास्तिष्ठेयुरिति तस्य लक्ष्यमासीत् । स भारतीयस्वातन्त्र्यमपि भारतीयतामधिकृत्यैव भवेदिति कामयते स्म । स: पूर्णभारतीय आसीत् ।

विश्वविद्यालयस्य स कुलपतिपदमपि अलङकृतवान् । कुलपतिपदमलंकुर्वन् स छात्रान् प्रियपुत्रानिवामन्यत । अर्थसंकटे देहसंकटे वा ग्रस्तः कश्चित् छात्र इति ज्ञात्वा तस्य संकटमचिरमसौ पितृवदपानयत् कुलपतिस्तु स पदेनासीत् व्यवहारेण च कुलपिता अभवत् ।

काशीहिन्दूविश्वविद्यालयस्य विकासाय सततं प्रयत्नरतोऽपि मालवीयमहोदय: देशस्यासहायजनानां महान्तंक्लेशं दर्श दर्श परम: खिन्नो अभवत् । भारतस्याखण्डतायाः तस्यैकत्वस्य च निदर्शनं विश्वविद्यालयरूपेण तेन पुर:कृतम् । तन्निमित्तं तेन गुरु: प्रयासो विहितः । चत्वारिंशदुत्तरैकोनविंशतिशततमे वर्षे (1944) साम्प्रदायिको झञ्झावात: समुत्थितः । देशस्यानेकेषु भागेषु प्रज्वलित: साम्प्रदायिकताग्नि: भारतस्य सांस्कृतिकं प्रासादं भस्मसादकरोत् । ब्रिटिशशासनप्रयुक्तकुटिलनयेनोत्थितो झञ्झावातो मालवीयमहोदयस्य मन:स्थित भारतस्य चित्रं विकृतमकरोत् । कुटिलराजनीतिमुग्धा धर्मम्प्रति भ्रान्ता: नेतारो यथा ताण्डवमरचयन् तत्स्मृत्वाऽद्यपि हृदयं प्रकामं प्रकम्पते । सहस्रशः प्राणास्तदनलेहुताः । सहस्रशो जना गृहहीना: जाताः । लक्षाधिका: शरणार्थिनोऽभवन् । मालवीयमहोदयस्य चित्तमतयं तदु:खं सोढुं नाशक्नोत् । विश्वविद्यालयस्थे कुलपतिभवने स प्राणानत्यजत् । मालवीयमहोदयस्य विपुलं यशः विश्वविद्यालयरूपेण जगति शाश्वतं स्थास्यति ।

काठिन्य निवारण


वपुः = शरीर । धवलं = सफेद । परिधानं = वस्त्र । लम्बितम् = लटका हुआ । उत्तरीयं = दुशाला । उष्णीषम् = पगड़ी । ललाटे = मस्तक पर । विमलत्वम् = निर्मलता को । उपानहौ = जूते । निदर्शयति स्म = प्रकट करते थे । रूपायिता = साकार । विश्रुतो = प्रसिद्ध । समादृत = सम्मानित । आर्तिनाशनम् = दु:खों का नाश । उप्तानि = बोये गये । वृत्तिः = जीविका । अर्थकार्यं = धन की कमी । यूनः = युवकों का । कुर्वता = करते हुए । अतिरिच्येत = अतिरिक्त । अवदानम् = योगदान । अधिवक्तृकर्म = वकालत । ख्यातिमवाप = यश प्राप्त किया । मृषावादानसौ = इन्होंने
झूठ बोलना । निरतः = लगा हआ । निदधौ = रख लिया । इयति = इतने । निष्णाताः = चतर । अश्रावयत् = सनाते थे । अचिरम् = शीघ्र । प्रासादं = महल को । अनले = अग्नि में । विहितः = किया । समुत्थितः = उठ खड़ा हुआ । हुताः = आहुति दिये गये । विपुलं = विशाल ।

1– ‘मदनमोहन मालवीय:’ पाठ का सारांश हिन्दी में लिखिए । (2018HR, HT, 19AP, 20MO, MT, MU)

2– निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए
(क) गौरं….
(ख) पण्डितमदनमोहन…
(ग) हिन्दुस्तान’ पत्रस्य…………………………..आस्ताम् ।

(घ) अस्मिन्…………………………………..कामयते स्म ।
(ङ) अस्मिन्…………………………………..लक्ष्यमासीत् ।
(च) कुटिलराजनीति.. ……………………..प्राणानत्यजत् ।
(छ) विश्वविद्यालयस्य…………………..कुलपिता अभवत् ।
(ज) मदनमोहनमालवीयोऽध्यापको………………….. महामना’ इत्यवोचत् ।

  1. निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए

(क) महामना मदनमोहन मालवीय के द्वारा स्थापित विश्वविद्यालय का नाम एवं स्थान लिखिए ।
(ख) मालवीय जी की जीवन-शैली कैसी थी ?
(ग) महामना मालवीय जी ने देश के हित में सबसे बड़ा कार्य क्या किया ?
(घ) मदनमोहन मालवीय का जीवन-परिचय दीजिए ।
(ङ) मालवीय जी को ‘महामना’ सर्वप्रथम किसने कहा ?
(च) काशी हिन्दू विश्वविद्यालय के प्रथम कुलपति कौन थे ?
(छ) मालवीय जी के रचनात्मक कार्य का उल्लेख कीजिए ।
(ज) मालवीय जी के दो महत्त्वपूर्ण कार्यों का उल्लेख कीजिए ।
(झ) काशी हिन्दू विश्वविद्यालय की स्थापना कब हुई ?
(ञ) मालवीय जी द्वारा सम्पादित समाचार-पत्र का नाम लिखिए ।
(ट) “मदनमोहन मालवीय:’ पाठ का सारांश लिखिए ।
(ठ) ‘मदनमोहन मालवीय:’ पाठ के आधार पर ‘मालवीय’ का चरित्र-चित्रण लिखिए ।

४– निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए
(क) मदनमोहन मालवीयस्य जन्म कदा अभवत् ?
(ख) मदनमोहन मालवीयस्य जन्म कुत्र अभवत् ?
(ग) मदनमोहन मालवीयस्य जनकः कः आसीत् ?
(घ) मदनमोहन मालवीयस्य प्रारम्भिकी शिक्षा कुत्र अभवत् ?

(ङ) काशी हिन्दू विश्वविद्यालय: केन संस्थापित: ?

  1. अस् धातु के रूप विधिलिङ् के तीनों वचनों और पुरुषों में लिखिए ।
  2. निम्नलिखित शब्दों का प्रयोग संस्कृत-वाक्यों में कीजिए

सः, अभवन्, देशस्य, तस्य, सह, कालान्तरे ।

1 thought on “up board class10 sanskrit solution chapter 8 madan mohan malviy अष्टमः पाठः मदनमोहन मालवीयः”

  1. Pingback: Up Board Class10 Sanskrit Solution Chapter 9 नवमः पाठः जीवनं निहितं वने – UP Board INFO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top