up board class10 sanskrit solution chapter 9 नवमः पाठः जीवनं निहितं वने

up board class10 sanskrit solution chapter 9 नवमः पाठः जीवनं निहितं वने

नवमः पाठः जीवनं निहितं वने

(वन में जीवन निहित है)
[ मनुष्य से वनों का सम्बन्ध अनादिकाल से जुड़ा है । हमारे भौतिक और सांस्कृतिक विकास में वनों की एक अहं भूमिका रही है । वनों की अनुपस्थिति में जीवन की कल्पना करना असम्भव है । हमारे पूर्वज इन वनों का पुत्रवत् पालन करते थे । वृक्षों का लगाना, उन्हें पोषित करना कर्त्तव्य माना जाता था । हमारा भी कर्त्तव्य बनता है कि प्रत्येक मनुष्य अपने जीवन में एक पौधा लगाकर उसे पोषित कर बड़ा करे । केवल पुराना वृक्ष काटना चाहिए और काटने से पहले दोगुना वृक्ष लगा देना चाहिए । ]

वनमितिशब्द: श्रुतमात्र एवं कमपि दरमादरं वा मनसि कुरुते । तत्र सिंहव्याघ्रादयो भयानका हिंस्रका: पशवोऽजगरादयो विशालश्च सरीसृपाः वसन्ति, निर्जनता तु तादृशी यत्तच्छायायामापदि निपतितस्य जनस्य आर्तः स्वरो मानवकणे प्रविशेदिति घुणाक्षरीयैव सम्भावना, प्रायशस्तु स वनगहन एव विलीयेतेति नियतिः । एतां स्थितिमेव विबोध्य संस्कृते मनीषिभिररण्यरोदनन्याय उद्भवितः । सत्यमेव स्थितिमेतामनुस्मृत्यापि भिया वपुष्येकपदे एव रोमाञ्चो जायते । परन्त्वस्माकं न केवलं भौतिके प्रत्युत सांस्कृतिकोऽपि विकासे वनानां सुमहान् दायो यत आरण्यकोपनिषदादयः पराविद्याविवेचका ग्रन्थाः वनेष्वेवाविर्भूताः । वनस्थेषु तपोवनेष्वेव दशलक्षणात्मको मानवधर्मश्चतुष्टयात्मकं जीवनोद्देश्यं च उत्क्रान्तमितीतिहासः सुतरां प्रमाणयति तस्मात् वनेष्वस्माकमादरोऽपि भवति । प्राक्तनैस्तु वनं विना जीवनमेव न परिकल्पितं संस्कृतकवीनां वनदेवताकल्पना वानप्रस्थाश्रमे च वननिवासविधानं तदेव सङ्केतयति । एतदपि बोध्यं यत् प्रत्यक्षतो वनानि मनुजजात्यै यावद् ददति परोक्षतस्तु ततोऽप्यधिकम्, तस्मादेव कारणात् प्राञ्च: स्वपुत्रकानिव पादपान् पालयन्ति स्म जन्तूंश्च रक्षन्ति स्म, अजयं तेषां तैः सङ्गतमासीत् ।

किन्तु हन्त! निरन्तरविवर्धितसंख्यो विवृद्धलोभो मानवस्तात्कालिकाल्पलाभहेतोर्विचारमूढतया वनानि तथा अचीकृन्तत् चङ्कृन्तति च यत्तस्य निजजीवनस्यैव नैकधा भीरुपस्थिता । जानात्येव लोको यज्जीवनमन्नमयम्, अन्नं च कृष्योत्पाद्यम्, कृषिविकासार्थं समुचितं वातावरणं घटयितुं प्राकृतिकं सामञ्जस्यं च रक्षितुं वनानामद्यत्वे यादृश्यावश्यकता न तादृशी क्वापि पुराऽन्वभूयत् । यतोऽहर्निशं विद्यमानानां वनानां तावानेवांशोऽविशिष्टः यावान् भारतभूभागस्य प्रतिशतं केवलमेकादशमंशमावृणोति, तत्राप्युत्कृष्टवनानि तु प्रतिशतं चतुरंशात्मकान्येव । भद्रमिदं यदधुना विश्वस्य सर्वेष्वपि राष्ट्रेषु वनानां रक्षार्थ प्रयासा: क्रियन्ते । भारतेऽपि सर्वकारेण तदर्थं जनं प्रबोधयितुमेकमान्दोलनमेव चालितं यदधीनं समय-समये नैकत्र वनमहोत्सवा आयोज्यन्ते, व्यक्तयः सार्वजनीनाः संस्थाश्चापि वृक्षान् रोपयितुं प्रोत्साह्यन्ते । ।

वनसंघटकास्तावद् द्विविधा वनस्पतय: सविहगा जन्तवश्च, उभयस्मादपि मानवस्य लाभस्तद् द्वयमपि च यथायोग्यं रक्षणीयम् । वृक्षेभ्यो न केवलं फलानि, पुष्पाणि, इन्धनार्हाणि भवनयोग्यानि च काष्ठानि अपितु भैषज्यसमुचितानि नानाप्रकाराणि वल्कलमूलपत्राणि वस्तून्यपि लभ्यन्ते, नानाविधौद्योगिकोत्पादन-समुचितानि जतूनि, तैलानि, तदितरद्रवपदार्थाचापि प्राप्यन्ते । स्वास्थ्यकरं मधुरं सुस्वादु औषधभोजनं मधु अपि वनस्पतिभ्यः एवोपलभ्यते । कर्गदस्येव नाइलोन इति प्रसिद्धस्य उत्तमपटनिर्मितिप्रयुक्तस्य सूत्रस्योत्पादनेऽपि वृक्षविशेषाणां काष्ठमुपादानं जायते । तेषां शाखानामुपयोगो मञ्जूषापेटिकादिनिर्माणे क्रियते । रज्जव: कटाश्चापि वानस्पतिकमुत्पादनमिति कस्याविदितम्? एवंविधस्य वनस्पतिसमूहस्य अविचारितकर्तनं न केवलं कृतघ्नता अपितु ब्रह्महत्येव महापातकमपि । संप्रति यावद् वनानां या हानिः कृता तत्पूर्त्यर्थं हरितवृक्षाणां कर्तनावरोधो नूतनानां प्रतिदिनमधिकाधिकारोपश्च सर्वेषामपि राष्ट्रियं कर्त्तव्यम् । वायुशुद्धिः, भूक्षरणनिरोध: पर्जन्यसाहाय्यं च वनानां मानवस्य जीवनप्रदः परोक्ष उपकारः । up board class10 sanskrit solution chapter 8 madan mohan malviy अष्टमः पाठः मदनमोहन मालवीयः

यथा वृक्षाणामुच्छेदस्तथैव मानवेन वन्यजन्तूनामप्यमानवीयो विनाश आचरितः । चर्मदन्तपक्षादिलोभेन मांसलौल्येन च पशुपक्षिणां तावान् वधः कृतो यदनेकास्तेषां प्रजातयो भूतलाद् विलुप्ताः, नैकाश्च लुप्तप्रायाः । सिंहव्याघ्रादीनां तु दूर एवास्तां कथा, हरिणादिमुग्धपशून् तित्तिरादिकान् उपयोगिनः पक्षिणोऽपि निघ्नन्नासौ विरमति । हिंस्रका: जन्तवोऽपि प्राकृतिकं संतुलनं रक्षन्ति मनुष्यस्य चोपकारका एव भवन्ति । पक्षिण: कृषिहानिकरान् कीटान् भक्षयन्ति यथा तित्तिर: सितपिपीलिकाः तथैव सिंहादयाः पशून् हत्वा परिसीमयन्ति । एवं स्वतः एव प्रकृतिः स्वयं संतुलनं साधयति । एवमद्यानुभूयते यत् मनुष्यस्य तदितरेषां प्राणिनां च मध्ये सौहार्द स्थापनीयम् । तत्र मनुष्य एव प्रथमं प्रबोधनीय: शिक्षणीयश्च यतः स निरर्थकं मनोरञ्जनायापि मृगयां क्रीडन् हिंसां करोति । अस्माकं विशाले भारतवर्षे सार्धद्वादशशतजातीयाः पक्षिणः प्राप्यन्ते । तेषु बहवः ऋतुपरिवर्तनकारणात्, प्रजननहेतो जनस्य दुष्प्राप्यत्वात् काले-काले परत्र व्रजन्ति । एवमेव देशान्तरादपि बहवः पक्षिणोऽत्रागत्य प्रवासं कुर्वन्ति । रूसप्रदेशस्य साइबेरियाप्रान्तात् सहस्रशो विहगाः शीतकाले भारतस्य भरतपुरनिकटस्थे घानापक्षिविहारम् आगच्छन्ति । पक्षिणां मैत्रीभाव:, दाम्पत्यम्, मिथो व्यापारा:, भोजनविधयः, नीडनिर्माणम् विपदि आचरणम् सर्वमपि प्रेक्षं प्रेक्षमध्येयं भवति तन्न केवलं मनोरञ्जकमपि तु शिक्षाप्रदमात्मानन्दजनकं चापि भवति । अस्माकं देशे सलीमअलीनाम महान् विहगानुवीक्षको जातो येन पक्षिविज्ञानविषये बहूनि पुस्तकानि लिखितानि सन्ति । हरियाणाप्रदेशे राजस्थाने च निवसन्तो विश्नोईसम्प्रदायस्य पुरुषा वनानां पक्षिणां च रक्षणे स्वप्राणानपि तृणाय मन्यन्ते । न ते हरितवृक्षान् छिन्दन्ति नापि चान्यान् छेत्तुं सहन्ते । वन्यपशूनामाखेटोऽपि तेषां वसतिषु नितरां प्रतिषिद्धः । जोधपुरनरेशस्य प्रासादनिर्माणार्थं काष्ठहेतोः केजरीवृक्षाणां कर्तनाज्ञाविरुद्धम् एकैकश: शतत्रयसंख्यकैर्विश्नोई स्त्रीपुरुषैः विच्छेदिष्यमाणवृक्षानालिङ्गद्भिः, प्रथममस्माकं वपुश्छेद्यं पश्चाद् वृक्षाः इत्येवं जल्पद्भिः स्वप्राणा दत्ता इति तु जगति विश्रुतं नामाङ्कनपुरस्सरं तत्राङ्कितम् च ।

नास्त्येषोऽस्माकमभिप्रायो यद्वनेभ्य: प्राप्यो लाभो ग्राह्य एव न । स तु अवश्यं ग्राह्य: यथा मधुमक्षिका पुष्पाणां हानिं विनैव मधु नयति तथैव भवननिर्माणाय अन्यकारणाद् वा काष्ठं काम्यत एव, किन्तु पुरातना एव वृक्षा योजनां निर्माय कर्त्तनीया, न नूतनाः । यावन्त: कर्त्तनीयास्तविगुणाश्च पूर्वत एव आरोपणीयाः । गृहाणां प्राङ्गणेषु केदाराणां सीमसु पर्वतानामुपत्यकासु, मार्गानुभयतः क्रीडाक्षेत्राणि परितश्च यत्रापि यावदपि स्थलं विन्दते तत्र यथानुकूल्यं विविधा वृक्षा रोपणीयाः । प्रत्येकं देशवासिनैवमेव विधेयं, प्रत्येकं जन्म मृत्युर्विवाहश्च वृक्षारोपणेनानुसृतः स्यात् । यद्येवं सोत्साहं योजनाबद्धं च कार्यं भवेत् आरोपितानां वृक्षाणां च निरन्तरपोषणमुपचर्येत तर्हि वर्षदशकेनैव निकामं क्षतिपूर्तिर्भवेत् । किं बहुना, वृक्षाणां पशुपक्षिणां च रक्षणे विश्नोई सम्प्रदायस्यादर्शः सर्वैरपि पालनीयः । एवं च ब्रूम: वनेन जीवनं रक्षेत् जीवनेन वनं पुनः । मा वनानि नरश्छिन्देत् जीवनं निहितं वने । ।
काठिन्य निवारण सरीसृपाः = सर्प आदि रेंगने वाले प्राणी । दरम् = भय । आर्त = दुःखपूर्ण । निवसेत् = प्रवेश करे । विबोध्य = समझकर । उद्भवितः = कल्पना की । वपुषि = शरीर में । दायः = भाग, हिस्सा । पराविद्या = प्राचीन विद्या । उत्क्रान्तम् = प्रकट हुआ । प्राक्तनैः = प्राचीन काल में हुए । प्राञ्चः = पूर्व पुरुष । अजयं = बूढ़ा न होने वाला । हन्त = खेद है । विवृद्ध = बढ़े हए । वनसंघटकाः = वनों को बनाने वाली । वल्कलं = छाल । कर्गदस्य = कागज का । कटा = चटाई । भूतलाद् = पृथ्वी से । मञ्जूषा = सन्दूक । पर्जन्य = बादल । निघ्नन् (नि + घ्न् + शतृ) = मारता हुआ । व्यापारः = परस्पर व्यवहार । केदाराणाम् = खेतों की । उपत्यकासु = घाटियों में । परितः = चारों ओर । निकामं = पूरी तरह ।

अभ्यास प्रश्न—- up board class10 sanskrit solution chapter 8 madan mohan malviy अष्टमः पाठः मदनमोहन मालवीयः

1-‘जीवनं निहितं वने’ पाठ का सारांश हिन्दी में लिखिए ।
2- निम्नलिखित गद्यावतरणों का ससन्दर्भ हिन्दी में अनुवाद कीजिए
(क) वनसंघटकास्तावद्—————————प्राप्यन्ते ।
(ख) किन्तु हन्त!————–पुराऽन्वभूयत् ।
(ग) यथा वृक्षाणाम् ——एव भवन्ति ।
(घ) गृहाणां——————— पालनीयः ।
(ङ) पक्षिणः———————-हिंसां करोति ।
(च) वनेन जीवनं ————————- जीवनं निहितं वने ।
3- निम्नलिखित प्रश्नों के उत्तर हिन्दी में लिखिए

(क) लेखक क्यों कहता है कि हमारा जीवन वनों में निहित है?
(ख) वनों का महत्त्व लिखिए ।
(ग) पर्यावरण-सुरक्षा पर पाँच वाक्य लिखिए ।
(घ) आज भारत में वनों का प्रतिशत क्या है?
(ङ) वन संरक्षण व वृक्षारोपण से क्या-क्या लाभ हैं?
निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए
(क) विश्नोई सम्प्रदायस्य प्रमुख धर्मः किम् अस्ति?
(ख) घाना पक्षिविहारं कुत्र अस्ति?
(ग) विश्नोई परिवारस्य जनाः कुत्र निवसन्ति?
निम्नलिखित शब्दों को संस्कृत के वाक्यों में प्रयोग कीजिए

वनमिति, वनमहोत्सवाः, भूक्षरणम्, निर्जनता, पालनीयः ।
6- निम्नलिखित शब्दों में संधि-विच्छेद कीजिए

महोत्सवः, प्रत्येकम्, आरोपश्च, चोपकारका ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top