
bharteeya sanskriti Essay In Sanskrit भारतीया संस्कृतिः महत्वम् निबंध
bharteeya sanskriti Essay In Sanskrit: इस पोस्ट मे यहाँ पर हम संस्कृत भारतीया संस्कृतिः निबंध: आप सभी के साथ शेयर कर रहे है जो इस प्रकार है।
भारतीया संस्कृतिः
‘सम्’ उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन संस्कृतिः’ शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहार आचारच क्रियते। तत् सर्वं तस्य देशस्य संस्कृतिः कथ्यते ।
विश्वस्य सर्वासु संस्कृतिषु भारतीया संस्कृतिः सर्वाधिकप्राचीना उत्कृष्टा च वर्तते। अस्याः वैशिष्ट्यमेतदेव यत् अनेकः वैदेशिकैरनेकशः एनां नष्टुं प्रयत्नं कृतम्, किन्तु एषा न नष्टा, अपितु अद्यापि अक्षुण्णा एव दृश्यते ।
वस्तुतः अस्थां ईदृशानि तत्त्वानि सन्ति, कानिचित् यैरेषा दीर्घकालानन्तरमपि अद्य स्वोत्कृष्टतां अक्षुण्णतां च धारयति। अस्याः सम्यक् अवलोकनार्थं अस्माभिः संस्कृतस्य अध्ययनं अपेक्षितम्। संस्कृतभाषायाः प्रतिकाव्यं स्वस्मिन् भारतीयसंस्कृतेः उदात्तरूपस्य गाथा वर्तते ।
भारतवर्षस्य प्रतिग्रामं अस्याः स्वरूपं कथयति । वस्तुतः अद्यापि स्वसंस्कृति प्रति गौरवं अनुभवामः अस्याः मूलाधारो वेदाः सन्ति वेदाश्च विश्वस्य प्राचीनतमानि पुस्तकानि सन्ति । इत्यर्थं संस्कृतिरेषा विश्वसंस्कृतिषु प्रचीनतमा विद्यते। ऋग्वेदे भणितमस्ति
“सा प्रथमा संस्कृति विश्वधारा”
वस्तुतः इयं संस्कृतिः लोकमंगलकारी विश्वबन्धुत्व भावनया च परिपूरिता अस्ति। अहिंसा अस्याः मूलमन्त्रमेवास्ति । परोपकारभावनाभिः एषा परिपूर्णा वर्तते। ‘कर्मानुसारमेव पुनर्जन्म भवति’ इत्यस्मिन् सिद्धान्ते अस्याः आस्था दृश्यते ।
समन्वयस्य भावना अस्याः संस्कृतेः महत्वैशिष्ट्यम् । विदेशेभ्यः आगता बहवः जातयः अत्रागत्य अनया सह सम्मीत्य एकीभूताः सञ्जताः। वर्णाश्रमव्यवस्था अस्याः अन्या विशेषता अनया व्यवस्थया भारतीयसमाज चतुर्वर्णेषु विभक्तो वर्तते- ‘ब्राह्मण-क्षत्रिय-वैश्य-शूद्रः’ इति । अस्या व्यवस्थायाः उद्देश्योऽयं अस्ति यत् समाजे विविधेषु कार्येषु सौख्यं स्यात् आरम्भे व्यवस्था एषा कर्माधारिता
आसीत्। अद्य तु जन्माधारिता सञ्जता।
‘मनुष्यस्य सर्वांगीणविकासो भवेत्’ इति आश्रमव्यवस्थायाः उद्देश्योऽऽसीत् । अनेनैव मानव शतायुः परिकल्प्य तस्य जीवनं चतुर्भागेषु विभक्त कृतमासीत् ‘बह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यास’ इति । सर्व एतदेव आश्रम व्यवस्था’ कथ्यते ।
भारतीया संस्कृतिः कृषिप्रधाना, अनेन अत्र कृषेः अतिमहत्त्वं अस्ति। अत्र गोः गंगायाः वैशिष्ट्यं परिदृश्यते । अत्र तीर्थानां देवानाञ्च वन्दनं भावातिरेकेन भवति।
एतत् अस्याः संस्कृतेरेव वैशिष्ट्यम्, यत् यानि यानि अपि वैशिष्ट्यानि परेषां संस्कृतीनां अनया स्वीकृतानि वर्तन्ते । अस्यां संस्कृती ये जनाः निवसन्ति, ते सर्वे परम संतोषं अनुभवन्ति, कुतः अत्र न कोऽपि भेदभावः परिदृश्यते । ‘वसुधैव कुटुम्बकं’ इति भावनया ओतप्रोता च इयं संस्कृतिः दरीदृश्यते ।
मानवतायाः अत्र पूजा भवति । भारतीयसंस्कृतेः मूलमन्त्रं एव अस्ति
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कञ्चिद् दुःखभाग्मेवत् ॥
WWW.UPBOARDINFO.IN
UP BOARD TOPPERS LIST PDF DOWNLOAD
UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित
यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें
Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1