Mp Board Class 10 Sanskrit Solution Chapter 5
Mp Board Class 10 Sanskrit Solution Chapter 5 कुटुम्बानुरक्तिः पाठ का हिंदी अनुवाद प्रश्न और उत्तर खली स्थान संधि विच्छेद समास आदि

पञ्चमः पाठः कुटुम्बानुरक्तिः
Table of Contents
संस्कृतनाटककारेषु प्रमुखेन महाकविभासेन “नाटकान्तं कवित्वम्” इति उक्तिं चरितार्थं कृत्वा त्रयोदशनाटकानि विरचितानि।तानि च दूतवाक्यम्, कर्णभारम्, दूतघटोत्कचः, मध्यमव्यायोगः, पञ्चरात्रम्, उरुभङ्गम्, अभिषेकनाटकम्, बालचरितम्, अविमारकम्, प्रतिमानाटकम्, प्रतिज्ञायौगन्धरायणम्, स्वप्नवासवदत्तम्, चारुदत्तश्चेति।
अंशोऽयं भासप्रणीतात् “मध्यमव्यायोगः” इति ग्रन्थात् गृहीतः।
अंशेऽस्मिन् प्रस्तुतं यत्-यदा घटोत्कचेन वधार्थम् एक: ब्राह्मणपरिवार: समासादित: तदा परिवारस्य सर्वे सदस्याः स्वपारिवारिकान् अन्यान् सदस्यान् मोक्तुं स्वप्राणोत्सर्ग कर्तुं च कथम् उद्यता: भवन्ति।
स्वपरिवारं प्रति समर्पणं प्रेमभावं च प्रकटयति अयमंशः ।
Mp Board Class 10 Sanskrit Solution Chapter 5
वृद्धः – हन्त निराशा:स्मः । भवतु पुत्र! व्यपाश्रयिष्ये तावदेनम् ।
प्रथमः (पुत्रः)- अलमलं परिश्रमेण ।
वृद्धः – पुत्र ! निर्वेदप्रत्यर्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत्। |
भो भोः पुरुष ! अस्त्यस्माकं मोक्ष: ?
घटोत्कचः – मोक्षोऽस्ति समयत:।
वृद्धः – क: समय: ?
घटोत्कचः – अस्ति मे तत्रभवती जननी । तयाऽहमाज्ञप्तः । पुत्र !
ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य इति । ततो मयाऽऽसादितो भवान् ।
पल्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥१॥
वृद्धः – हं भो राक्षसापसद ! किमहमब्राह्मण: ?
ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।
पुरुषादस्य दत्त्वाहं कथं निर्वृत्तिमाप्नुयाम् ॥२॥
घटोत्कचः –
यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।
सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥३॥
वृद्धः – एष एव मे निश्चयः।
कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।
राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥४॥
ब्राह्मणी – आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्य कुलं च रक्षितुमिच्छामि।
घटोत्कचः – भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या।
Mp Board Class 10 Sanskrit Solution Chapter 5
वृद्धः – अनुगमिष्यामि भवन्तम् ।
घटोत्कचः – आ: वृद्धस्त्वमपसर।
प्रथमः (पुत्रः)- भोस्तात – ब्रवीमि खलु तावत्किञ्चित् ।
वृद्धः – ब्रूहि, ब्रूहि शीघ्रम्।
प्रथमः (पुत्रः)
मम प्राणैर्गुस्प्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थ कुलस्यास्य मोक्तुमर्हति मां भवान् ॥५॥
द्वितीय: (पुत्रः)-आर्य ! मा मैवम् ।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥६॥
तृतीयः (पुत्र:)- आर्य ! मा मैवम्।
ज्येष्ठो भ्राता पितृसम: कथितो ब्रह्मवादिभिः ।
ततोऽहं कर्तुमस्म्यौं गुरूणां प्राणरक्षणम् ॥७॥
घटोत्कचः – अहो स्वजनवात्सल्यम्।
(इति निष्क्रान्ता: सर्वे)
श्लोकान्वयः
(1) (हे वृद्ध !) चारित्रशालिन्या पत्न्या (सह) द्विपुत्र: मोक्षम् इच्छसि (तर्हि) बलाबलं परिज्ञाय एकं पुत्रं विसर्जय।
(2) (अहम्) वृद्धः ब्राह्मण: श्रुतवान् शीलगुणान्वितं पुत्रं पुरुषादस्य दत्वा कथं निर्वृत्तिम् आप्नुयाम् ।
(3) द्विजश्रेष्ठ ! यदि अर्थित: एकं पुत्रं न मुञ्चसि (तर्हि) सकुटुम्ब: क्षणेनैव विनाशम् उपयास्यसि ।
(4) सुतापेक्षी (अहम्) परिणामेन जर्जरं विधिसंस्कृतं कृतकृत्यं मे वृद्धस्य शरीरं राक्षसाग्नौ होष्यामि ।
(5) (अहं प्रथमः पुत्रः) मम प्राणैः गुरुप्राणान् परिरक्षितुम् इच्छामि (अतः) भवान् अस्य कुलस्य रक्षणार्थं मां मोक्तुम् अर्हति।
(6) (भो जनक !) कुले, लोके पितॄणां च ज्येष्ठः श्रेष्ठः सुसंप्रियः (भवति) तत: गुरुवृत्तिम् अनुस्मरन् अहमेव यास्यामि ।
(7) ज्येष्ठः भ्राता ब्रह्मवादिभिः पितृसम: कथित: तत: गुरूणां प्राणरक्षणं कर्तुम् अहम् अर्हः अस्मि ।
अस्मद के रूप तीनों लिंगों मे एक समान होते है जानने के लिए यहाँ पर क्लिक करे
`शब्दार्थ:
हन्त – हाय । व्यपाश्रयिष्ये – निवेदन करते हैं (वि+अप+आ+श्रि+लिट्)। निर्वेदप्रत्यर्थिनी – मुक्ति की/मोक्ष की याचना। मोक्ष: – मुक्ति । समयत: – शर्त से/शर्त पर। आसादित: – पकड़ा है। बलाबलम् – प्रिय और अप्रिय/श्रेष्ठ और हीन । परिज्ञाय – जानकर/विचार करके । राक्षसापसद ! – नीच/क्रूर राक्षस । श्रुतवान् – शास्त्रज्ञ । पुरुषादस्य – (पुरुषं मानुषम् अत्ति खादतीति) मनुष्य को खाने वाले के लिए। निर्वृत्तिम् – शान्ति को । मुञ्चसि – तुम छोड़ते हो। सुतापेक्षी – पुत्र की अपेक्षा वाला। विधिसंस्कृतम् – अनुष्ठानों के द्वारा पवित्र । कृतकृत्यम् – (कृतं कृत्यं येन सः) जिसके द्वारा समस्त कार्यपूर्ण कर लिए गए हों वह। अपसर – दूर हटो। ब्रूहि – कहो । परिरक्षितुम् – रक्षा करने के लिए। ब्रह्मवादिभि: – मनु इत्यादि महर्षियों ने/ब्रह्मज्ञों ने । यास्यामि – जाऊँगा। गुरुवृत्तिम् – पूर्वजों के आदर्श को । अर्हः – योग्य।
अभ्यास: एकपदेन उत्तरं लिखत –
(क) घटोत्कच: कया आज्ञप्त: ?
(ख) ‘किमहमब्राह्मणः’ इति कः उक्तवान् ?
(ग) पुरुषादः कः आसीत् ?
(घ) कुलं का रक्षितुमिच्छति ?
(ङ) ज्येष्ठः पितृसम: इति कैः उक्तम् ?
एकवाक्येन उत्तरं लिखत –
(क) ब्राह्मणपरिवार: केन समासादित: ?
(ख) सुतापेक्षी कः आसीत् ?
(ग) पितॄणां सुसम्प्रिय: क: भवति ?
(घ) घटोत्कचः कति पुत्रान् विसर्जयितुं कथयति ?
(ङ) घटोत्कचः अन्ते किं कथयति ?
- अधोलिखितप्रश्नानाम् उत्तराणि लिखत –
(क) ब्राह्मणी वृद्धं किं कथयति ?
(ख) द्वितीयः पुत्रः स्वभ्रातरं किं कथयति ?
(ग) तृतीयः पुत्रः स्वभ्रातरौ किं कथयति ? - प्रदत्तशब्दैः रिक्तस्थानानि पूरयत –
(परिणामेन, पतिव्रतेति, बलाबलं, श्रेष्ठः, पितृसम:)
(क) पतिमात्रधर्मिणी.. …………… नाम।
(ख) ज्येष्ठः .. ……………………… कुले लोके।
(ग) कृतकृत्यं शरीरं मे ………………… जर्जरम् ।
(घ) ज्येष्ठो भ्राता ……………………….!
(ङ) ……………………. परिज्ञाय पुत्रमेकं विसर्जय। - यथायोग्यं योजयत –
‘अ’ ‘आ’
(क) द्विजश्रेष्ठः प्रार्थना
(ख) पुरुषादः पितृसमः
(ग) निर्वेदप्रत्यर्थिनी घटोत्कचः
(घ) जर्जरम् वृद्धः
(ङ) ज्येष्ठः शरीरम् - शुद्धवाक्यानां समक्षम् “आम्” अशुद्धवाक्यानां समक्षं “न” इति लिखत –
(क) घटोत्कच: जनन्या आज्ञप्तः।
(ख) किमहमब्राह्मणः इति प्रथमः पुत्रः कथयति ।
(ग) कुले लोके च अनुजः श्रेष्ठः भवति ।
(घ) ज्येष्ठो भ्राता पितृसमः इति ब्रह्मवादिभिः कथितः ।
(ङ) ब्राह्मणी पतिमात्रधर्मिणी आसीत् । - अधोलिखितशब्दानां मूलशब्दं विभक्तिं वचनं च लिखत –
शब्दः । मूलशब्दः । विभक्तिः ।
यथा – शरीरेण शरीर तृतीयाविभक्तिः ।
(क) गुरूणाम्
(ख) तया
(ग) पत्न्या
(घ) भवन्तम्
(ङ) पितॄणाम् - निम्नलिखितक्रियापदानां धातुं लकारं पुरुष वचनं च लिखत –
क्रियापदम् धातुः लकारः पुरुषः वचनम्
यथा – इच्छसि इच्छु लट्लकार: मध्यमपुरुषः एकवचन
(क) यास्यामि
(ख) मुञ्चसि
(ग) होष्यामि
(घ) गमिष्यामि
(ङ) इच्छामि- उदाहरणानुसारं पदानां धातुं प्रत्ययं च पृथक् कुरुत –
यथा – कथितः = कथ् + क्त
(क) मोक्तुम्
(ख) दत्वा
(ग) परिज्ञाय
(घ) कर्तुम्
(ङ) आनेतव्यः
(च) प्रतिगृह्य - अधोलिखितपदानां विग्रहं कृत्वा समासनाम लिखत –
(क) ज्येष्ठपुत्रः
(ख) अब्राह्मण:
(ग) द्विजश्रेष्ठः
(घ) कृतकृत्यम्
(ङ) प्राणरक्षणम्
- उदाहरणानुसारं पदानां धातुं प्रत्ययं च पृथक् कुरुत –