Sanskrit Bhasha Ka Mahatva Essay In Sanskrit संस्‍कृतभाषाया: महत्‍वम् निबंध

Sanskrit Bhasha Ka Mahatva Essay In Sanskrit संस्‍कृतभाषाया: महत्‍वम् निबंध

Sanskrit Bhasha Ka Mahatvam Essay In Sanskrit: इस पोस्ट मे यहाँ पर हम संस्‍कृत भाषाया: महत्‍वम् निबंध: [ मम प्रिय भाषा संस्‍कृत निबंध ] आप सभी के साथ शेयर कर रहे है जो इस प्रकार है।

१. संस्कृतभाषायाः महत्त्वम्

संसारेऽस्मिन् अनेकानां भाषाणां प्रयोग क्रियते यद्यपि भाषा वस्तुतः भावानामभिव्यक्तिमात्रिका वर्तते, किन्तु यदापि यस्यामपि भाषायां अधिकाधिकस्योपयोगी साहित्यस्य निर्माणं भवति तदानीं तस्याः भाषायाः महत्त्वं वर्धते । सर्वमेतत् संस्कृतोपरि परिघटते।

इयं भाषा न केवल भारतवर्षस्यैव अपितु विश्वस्य प्राचीनतमा भाषा, अतएवास्या अति महत्त्वमस्ति । अस्यां भाषायाञ्च सर्वाधिकस्य वाङ्मयस्य संरचना कृता, एषा भाषा अतीव वैज्ञानिकी च वर्तते । अस्याः पाणिनीयं व्याकरणमतीव

वैज्ञानिकमस्ति संस्कारयुक्ता परिष्कृता चेयं भाषा संस्कृत’ इति कथ्यते । अस्याः अन्यत् नाम देवभाषा, देववाणी सुरवाणी, गीर्वाणवाणी अपि अस्ति, एभिरपि अस्याः महत्त्वं परिवर्धते ।

‘विद्वांसो हि देवाः’

अनेनैव कथनेन भाषा एषा देववाणी कुतः विद्वद्भिरेषा प्रयुज्यते स्म पूर्वकाले विश्वस्य सर्वाधिकप्राचीनतमः ग्रन्थः ऋग्वेदोऽस्यामेव भाषायां निबद्धोऽस्ति । यदि वयं प्राचीन ज्ञान-विज्ञान संस्कृति प्रति जिज्ञासवः भवेम, तर्हि संस्कृतभाषा एव सहाय्या भविष्यति, अध्ययनं अस्या अपेक्षितं वर्तते ।

संस्कृतभाषा न केवलं भारतवर्षस्य अपितु विश्वस्यानेकानां भाषाणां जननी भारतवर्ष अनेकतायाः देशोऽस्ति । यदि वयं अनेकतायां एकतायाः परिदर्शन कर्तुं वाञ्छामः, यदि वयं भाषागतवैमनस्य दूरीकर्तुं इच्छामः तर्हि अस्माभिः भाषा एषा राष्ट्रभाषा रूपेण प्रतिष्ठिता कर्तव्या

वस्तुतः इयं भाषा एव सर्वेषां भारतीयानां मानसं एकस्मिन् सूत्रे निबद्धं कर्तुं शक्यते । संस्कृतभाषायाः साहित्यभण्डारोऽपि अतिविपुलः ज्ञान-विज्ञान सम्पन्नो वर्तते, समस्तञ्च वैदिक साहित्यमाध्यात्मिकज्ञानस्याकर एव वर्तते। महाभारतं रामायणञ्च द्वे अस्याः भाषायाः महत्त्वपूर्णे रत्ने स्तः।

महाकवि कालिदास-भवभूति-माघ-हर्ष चरक सुश्रुत-कणाद-गौतमार्यभट्टादिनामने केषां विदुषां कृतिभिः भाषा इयं समृद्धा वर्तते । राजनीते अप्रतिमो ग्रन्थः ‘कौटिल्यार्थशास्त्रम्’ मनु विरचिता ‘मनुस्मृतिः’ च अस्यामेव भाषायां विरचिता अस्ति।

माधुर्यमस्या: भाषायाः महत्त्वपूर्णा विशेषता अनेनैव कथ्यते

‘भाषासु मधुरा रम्या दिव्या गीर्वाणभारती।’

उपर्युक्त संक्षिप्तेन विवरणेन स्पष्टमेतत् यत् संस्कृतभाषायाः अनेकदृष्टिभिः अत्यधिकं महत्त्वमस्ति । अतः अस्माकं भारतवासिनां पुनीतकर्तव्यमेतत् यत् स्व गौरवमयमतीतमाधृत्य भविष्यस्य निर्माणकरणाय संस्कृतस्य प्रचार-प्रसारस्य प्रयासो विधेयः। संस्कृतस्य वै उत्रतिभिः अस्माकं सर्वेषामुन्नतिः सम्भाविता वर्तते। ये जनाः स्वराष्ट्रस्य गौरवपूर्णमितिहासं स्मरन्ति ते खलु सफलतायाः चरमोत्कर्षं लभन्ते।

WWW.UPBOARDINFO.IN

UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित

यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें

Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE

Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Leave a Comment

Your email address will not be published. Required fields are marked *