Sanskrit Essay on Himalaya हिमालय पर संस्कृत में निबंध

sanskrit essay
Sanskrit Essay of Himalaya

Sanskrit Essay on Himalaya हिमालय पर संस्कृत में निबंध

हिमालय: भारतभूखण्डोपरि प्रकृते: महती अनुकम्पा वर्तते । नाना पर्वतमाला: विभिन्नाः सरितः नैकानि वनानि, द्वे सागरे, मरुस्थली च अत्र राजन्ते। एकस्मिन्नेव समये नैके ऋतवः अपि द्रष्टुं शक्यन्ते । यद्येकत्र ग्रीष्मातपप्रचण्डता दृश्यते, तदा अन्यत्र

हिमाच्छादितत्वात् शैत्यप्रकोपोऽप्यनुभूयते । अस्मिन् भारतवर्षे ये प्राकृतिक सीमान: सन्ति तेषु उत्तरस्यां दिशि हिमालयस्य प्रामुख्यं वर्तते भारतवर्षस्य उत्तरे दिग्विभागे अवस्थितेयं विशाला पर्वतमाला। कश्मीरादाभ्य अरुणाचलप्रदेशं यावद् अतिविस्तृतेयं पर्वतशृङ्खला अनादिकालात् भारत रक्षितवती न कोऽपि शत्रु: इमाम् उल्लङ्घ्य भारतं प्राविशत्, केवलं विगते

शताब्दे चीनदेश एव एतादृशं दुःसाहसं कर्तुम् अपारयत्। हिमालय एव उत्तरभारतस्य पिपासां शमयति विशालं कृषिक्षेत्रं च सिञ्चति । अस्य हिमाच्छादितत्वाद् गङ्गा-यमुना-शतद्रु-व्यास-वितस्तादय: सरित: सततं निस्सरन्ति । अस्माकं देश: ‘हिन्दुस्तान’ इति नाम्नापि व्यवहियते, अत्र यत् हिन्दू इति पदं वर्तते तत् सिन्धु इति शब्दान्निष्पन्नम्। सिन्धुनदी अपि हिमालयादेव प्रभवति ।

चिरात् नाना कवयः स्वीयरचनासु हिमालयं वर्णितवन्तः । कालिदासेन तु स्वीये कुमारसम्भवे अयं हिमालय: देवभूमिरूपेण इत्थं वर्णितः |

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधीवगाह्य स्थितः पृथिव्यामिव मानदण्डः ॥
हिमालयप्रदेशे एव अस्माकं पुरातनतीर्थादीनि सन्ति अत्रैव शङ्कराचार्येण स्थापितम् केदारनाथ इति तीर्थस्थानं वर्तते यमुनोत्री-गंगोत्री-बदरीनाथ प्रभृतीनि पवित्राणि स्थानान्यपि अत्रैव वर्तन्ते ।

नैकखनिजानाम् इयम् जन्मभूमि: । अत्रैवासीत् कण्वस्य तपोवनम्। आयुर्वेदस्य उपयोगाय औषधजातानि वनस्पतयश्च अस्मादेव प्राप्यन्ते। योगिनः अपि तप: साधनां कर्तुम् अत्रैव गच्छन्ति।

भारते भावनात्मकम् ऐक्यं स्थापयितुं हिमालयस्य महत्त्वपूर्ण योगदानं वर्तते ।

WWW.UPBOARDINFO.IN

Up pre board exam 2022: जानिए कब से हो सकते हैं यूपी प्री बोर्ड एग्जाम

Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE

सरकारी कर्मचारी अपनी सेलरी स्लिप डाउनलोड करें

Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Leave a Comment

%d bloggers like this: