
Up board solution for class 8 hindi manjari sanskrit chapter 3 महादानम्
सुधा : दीपक ! अत्र किं भवति ?
दीपक : सुधे ! अत्र जनाः रक्तदानं नेत्रदानं च कुर्वन्ति शरीरस्य कृते रक्तम् आवश्यकम् भवति ।
सुधा : दीपक ! रक्तनिर्माणं तु बहुपरिश्रमेण भवति, तर्हि जनाः कथं रक्तदानं कुर्वन्ति ? किं रक्तदानेन शरीरे रक्ताल्पता न भवति ?
दीपक : सुधे ! रक्ताल्पतायाः कारणं तु अन्यत् भवति अस्वस्थाः जनाः रक्तदानं न कुर्व | यदा कोsपि स्वस्थः जनः रक्तदानं करोति तदा तस्य शरीरे क्षिप्रमेव रक्तनिर्माणं भवति । सुधा : एका अन्या अपि शंका वर्तते यत् यथा रक्तदाने चिकित्सकाः रक्तदानाय उत्सुकजनानां केवलं सामान्यं रक्तवर्गपरीक्षणं कृत्वा त्वरितमेव सूचिकायंत्रेण रक्तं निस्सारयन्ति, किं तथैव नेत्रदानेsपि नेत्रे सद्यः एव निस्सारयन्ति ।
दीपक : नहि, नहि, नेत्रदाने तु नेत्रदानाय उत्सुकजनानां शिविरे पंजीकरणं भवति | यदा नेत्रदानोत्सुक जनानां मरणं भवति तदा परिवारजनाः संस्थाने सूचनां ददति | संस्थाने नियुक्ताः चिकित्सकाः तत्र गच्छन्ति बहु आदरेण सम्मानेन च नेत्रयोः निस्सारणं कुर्वन्ति । सुधा : किं मरणानंतरम् अपि नेत्रं जीवति ?
दीपक : आम् ! किंचितकालं तु जीवति चिकित्सकाः सूचनाम् अवाप्य ततः सद्यः एव नेत्रे निस्सारयन्ति ।
सुधा: अद्य अहं अतिप्रसन्ना अस्मि । जीवनसन्दर्भे तु अध्यापकाः बहु उपदिशन्ति किन्तु मृत्योरनन्तरमपि कोऽपि स्वकीयैः अङ्गः समाजस्य उपकारं कर्तुं क्षमः इति अद्य ज्ञातम्।
(शब्दार्थ)
रक्ताल्पता= खून की कमी। अन्यत् = दूसरा । क्षिप्रम् = शीघ्र | शङ्का = सन्देह | त्वरितमेव = तुरन्त ही । सूचिका = सूई । निस्सारयन्ति = निकालते हैं। अवाप्य = पाकर । नेत्रे दोनां आँखों को। क्षमः समर्थ।
अभ्यास
1- उच्चारण करें-
रक्ताल्पतायाः निस्सारयन्ति नेत्रदानोत्सुक जनानाम्
निस्सारणम् मरणानन्तरम् मृत्योरनन्तरमपि
2- एक पद में उत्तर दें-
(क) किम् अस्वस्थाः जनाः रक्तदानं कुर्वन्ति ?
(ख) केन यन्त्रेण रक्तं निस्सारयन्ति ?
(ग) नेत्रदान शिविरे सर्वप्रथमं किं भवति ?
(घ) किं मरणानन्तरम् अपि नेत्रं जीवति?
(ङ) चिकित्सका: सूचनाम् अवाप्य सद्यः किं निस्सारयन्ति ?
3. पाठ से रिक्त स्थानों की पूर्ति करें-
(क) रक्तनिर्माणं तु बहु भवति ।
(ख) तस्य शरीरे रक्तनिर्माणं भवति
(ग) संस्थाने नियुक्ताः ……… तत्र गच्छन्ति ।
(घ) जीवनसन्दर्भे तु अध्यापका……. ।
4- निम्नलिखित पदों में विभक्ति एवं वचन बताएँ-
विभक्ति वचन
(क) परिश्रमेण
(ख) नेत्रदानाय …………
(ग) सूचनाम्
5- निम्नलिखित में लकार, पुरुष एवं वचन स्पष्ट करें-
लकार………..पुरुष………..वचन
(क) भवति………….
(ख) कुर्वन्ति………..
(ग) भविष्यामि………
संस्कृत में अनुवाद करें-
(क) यहाँ लोग रक्तदान और नेत्रदान करते हैं।
(ख) शरीर के लिए रक्त आवश्यक होता है।
(ग) आज मैं बहुत प्रसन्न हूँ।
(घ) रक्ताल्पता का कारण दूसरा होता है। नेत्रदान महादान है।
7-किसने किससे कहा अपनी पुस्तिका पर लिखिए-
(क) किं मरणानन्तरम् अपि नेत्रं जीवति ?
(ख) अद्य अहं अतिप्रसन्ना अस्मि ।
(ग) किं रक्तदानेन शरीरे रक्ताल्पता न भवति ?
WWW.UPBOARDINFO.IN
Republic day poem in Hindi || गणतंत्र दिवस पर कविता 2023
यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें
Up pre board exam 2022: जानिए कब से हो सकते हैं यूपी प्री बोर्ड एग्जाम
Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE
सरकारी कर्मचारी अपनी सेलरी स्लिप Online डाउनलोड करें
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1